श्रवणम्

4.19.8
पू॒र्वीरु॒षसः᳚ श॒रद᳚श्च गू॒र्ता वृ॒त्रं ज᳚घ॒न्वा{4} अ᳚सृज॒द्वि सिन्धू᳚न् ।
परि᳚ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्र॒ः स्रवि᳚तवे पृथि॒व्या ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीः । उ॒षसः᳚ । श॒रदः᳚ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू᳚न् ।
परि᳚॑स्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः᳚ । स्रवि᳚तवे । पृ॒थि॒व्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रं वृत्राख्यमसुरं जघन्वाह्नतवानिन्द्रो गूर्तास्तमिस्रया गीर्णाः पूर्वीर्बह्वीरुषसः शरदश्च संवत्सरांश्च व्यसृजत् । विशेषेण ससर्ज । तथा सन्धून् वृत्रेणावृतान्युदकानि व्यसृजत् । किञ्च इन्द्रः परिष्ठिता मेघेषु परितः स्थिता बद्बधाना वृत्रेण परितो बध्यमानाः सीरा नदीः । सीरा इति नदीनामैतत् । पृथिव्या पृथिवीरूपेण मार्गेण प्रवितवे स्रवितुं गमनार्थमतृणत् । अविध्यत् ॥ ८ ॥