पृ॒क्षासो᳚ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति᳚स्तु॒रीयो॒ मधु᳚नो॒ वि र᳚प्शते ॥
पदपाठः (Word-by-word)
पृ॒क्षासः᳚ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि᳚ । त्रयः᳚ । दृतिः᳚ । तु॒रीयः᳚ । मधु᳚नः । वि । र॒प्श॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
एष स्य भानुरिति सप्तर्चं त्रयोदशं सूक्तम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । मण्डलद्रष्टा वामदेव ऋषिः । अश्विनौ देवता । एष स्य त्रिष्टुबन्तमिति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं शस्यम् । तथा च सुत्रितम् । आबोध्यग्निर्ज्म एष स्य भानुः । आ. ४-१५ ॥ इति ॥
एष पुरतो दृश्यमानः स्य स भानुर्दीप्तिमानादित्य उदियर्ति । ऊर्ध्वं गच्छति । पुरुस्ताद्रथश्च युवयोः सम्बन्धी परिज्मा परितो गन्तास्य दिवो द्योतमानास्यादित्यस्य सानवि सानौ समुच्छ्रितप्रदेश उदियर्तिति वा रप्यत इति वा सम्बन्धनीयम् । अस्मिन्रथेऽधि उपरिभागे मिथुना मिथुनीभूतास्त्रयस्त्रिविधाः पृक्षासोऽन्नानि । त्रेधा विहितं चान्नम् । इदमन्नमशनं पानं खादश्चेति हि श्रुतम् । त्रिष्वपि पदार्थेषु मिथुनशब्दस्तैत्तिरीयेषु दृश्यते । माता पिता पुत्रस्तदेव तन्मिथुनमिति । दृतिस्तुरीयः । रसद्रव्याधारः पदार्थश्चर्ममयो द्रुतिरित्युच्यते । मधुनः सोमरसस्य सम्बन्धी मधुपूर्णश्चतुर्थो वि रप्यते । विविधं राजते ॥ १ ॥