श्रवणम्

4.45.5 समानपद
स्व॒ध्व॒रासो॒ मधु᳚मन्तो अ॒ग्नय᳚ उ॒स्रा ज᳚रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ ।
यन्नि॒क्तह᳚स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु᳚मन्त॒मद्रि᳚भिः ॥
▶ पदपाठः (Word-by-word)
सु॒॑अ॒ध॒रासः᳚ । मधु᳚॑मन्तः । अ॒ग्नयः᳚ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति᳚ । वस्तोः᳚ । अ॒श्विना᳚ ।
यत् । नि॒क्त॑ह᳚स्तः । त॒रणिः᳚ । वि॒॑च॒क्ष॒णः । सोम᳚म् । सु॒साव᳚ । मधु᳚॑मन्तम् । अद्रि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वध्वरासः शोभनयागसाधना मधुमन्तो होतव्यसोमवन्तोऽग्नयो गार्हपत्यादय उस्रा सह निवसन्तावश्विनौ प्रति वस्तोरन्वहमुषःकाले जरन्ते । स्तुवन्ति । यद्यदा निक्तहस्तः समन्त्रेणोदकेन शोधितहस्तस्तरणिः कर्मणस्तारयिता विचक्षणो विविधं द्रष्टाध्वर्युः सोमं मधुमन्तमद्रिभिर्ग्रावभिः सुषाव । अभिषुतवान् । तदा तेऽग्नयः स्तुवन्ति । तस्मादागच्छतमित्यर्थः ॥ ५ ॥