श्रवणम्

4.45.3 समानपद
मध्व᳚ः पिबतं मधु॒पेभि᳚रा॒सभि᳚रु॒त प्रि॒यं मधु᳚ने युञ्जाथां॒ रथ᳚म् ।
आ व᳚र्त॒निं मधु᳚ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु᳚मन्तमश्विना ॥
▶ पदपाठः (Word-by-word)
मध्वः᳚ । पि॒ब॒त॒म् । म॒धु॒॑पेभिः᳚ । आ॒स॑भिः᳚ । उ॒त । प्रि॒यम् । मधु᳚ने । यु॒ञ्जा॒था॒म् । रथ᳚म् ।
आ । व॒र्त॒निम् । मधु᳚ना । जि॒न्व॒थः॒ । प॒थः । दृति᳚म् । व॒हे॒थे॒ इति᳚ । मधु᳚॑मन्तम् । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मध्वो मधुरं सोमरसं मधुपेभिः सोमपानार्हैरासभिरास्यैः पिबतम् । उतापि च प्रियं रथं मधुने मधुलाभाय युञ्जाथाम् । अश्वैर्युक्तं कुरुतम् । वर्तनिं यजमानगृहमा गच्छतमिति शेषः । षथो गमनमार्गान्मधुना जिन्वथः । प्रीणयतम् । यद्वैकं वाक्यम् । पथो वर्तनिमाकाशं जिन्वथः । दृतिं मधुमन्तं हे अश्विना वहेथे । धारयथः ॥ ३ ॥