श्रवणम्

4.45.4 समानपद
हं॒सासो॒ ये वां॒ मधु᳚मन्तो अ॒स्रिधो॒ हिर᳚ण्यपर्णा उ॒हुव᳚ उष॒र्बुधः᳚ ।
उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्ष॒ः सव᳚नानि गच्छथः ॥
▶ पदपाठः (Word-by-word)
हं॒सासः᳚ । ये । वा॒म् । मधु᳚॑मन्तः । अ॒स्रिधः᳚ । हिर᳚ण्य॑पर्णाः । उ॒हुवः᳚ । उ॒षः॒॑बुधः᳚ ।
उ॒द॒॑प्रुतः᳚ । म॒न्दिनः᳚ । म॒न्दि॒॑नि॒स्पृशः᳚ । मध्वः᳚ । न । मक्षः᳚ । सव᳚नानि । ग॒च्छ॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हंसासोऽध्वनि शीघ्रं गन्तारो मधुमन्तो माधुर्योपेता अस्रिधोऽद्रोग्धारो हिरण्यपर्णा हितरमणीयपर्णा उहुवो वोढार उषर्बुध उषसि बुध्यमाना उदप्रुत उदकस्य प्लावयितारो मन्दिनो हर्षयितारो मन्दिनिस्पृशो मन्दिनं सोमं स्पृशन्तः । इत्थं लक्शणा अश्वा ये सन्ति तैरश्वैर्मध्वो न मध्विव मक्षो मक्शिकाः सवनान्यस्मदीयानि गच्छथः ॥ ४ ॥