उद्वां᳚ पृ॒क्षासो॒ मधु᳚मन्त ईरते॒ रथा॒ अश्वा᳚स उ॒षसो॒ व्यु᳚ष्टिषु ।
अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॒᳚र्ण शु॒क्रं त॒न्वन्त॒ आ रजः᳚ ॥
अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॒᳚र्ण शु॒क्रं त॒न्वन्त॒ आ रजः᳚ ॥
पदपाठः (Word-by-word)
उत् । वा॒म् । पृ॒क्षासः᳚ । मधु᳚॑मन्तः । ई॒र॒ते॒ । रथाः᳚ । अश्वा᳚सः । उ॒षसः᳚ । वि॑उ᳚ष्टिषु ।
अ॒प॒॑ऊ॒र्णु॒वन्तः᳚ । तमः᳚ । आ । परि᳚॑वृतम् । स्वः᳚ । न । शु॒क्रम् । त॒न्वन्तः᳚ । आ । रजः᳚ ॥
अ॒प॒॑ऊ॒र्णु॒वन्तः᳚ । तमः᳚ । आ । परि᳚॑वृतम् । स्वः᳚ । न । शु॒क्रम् । त॒न्वन्तः᳚ । आ । रजः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पृक्षासः पृक्षास्त्रिविधान्नवन्तो मधुमन्तः सोमरसोपेता अश्वासोऽश्वयुक्ता वां युवयो रथाः । यद्वा । मधुमन्तः पृक्षा रथा अश्वासोऽश्वा उषसो व्युष्टिषु व्युच्छनेषु सत्सूदीरते । उन्मुखं गच्छन्ति । किं कुर्वन्तः । परीवृतं परितो व्याप्तं तम आ सर्वतोऽपोर्णुवन्तोऽपाकुर्वन्तः स्वर्न आदित्य इव शुक्रं दीप्तं रजस्तेजश्च तन्वन्तः । आकारश्चार्थे । यद्वा । रजोऽन्तरिक्षं शुक्रं दीप्तं तन्वन्तः ॥ २ ॥