चतुर्थं मण्डलम् - सूक्तम् 41

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 4.41 - सम्पूर्णम्

1 / 11
ऋक्: 4.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.41.1
इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्मा{4}᳚ अ॒मृतो॒ न होता᳚ ।
यो वां᳚ हृ॒दि क्रतु᳚मा{4} अ॒स्मदु॒क्तः प॒स्पर्श᳚दिन्द्रावरुणा॒ नम᳚स्वान् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः᳚ । ह॒विष्मा᳚न् । अ॒मृतः᳚ । न । होता᳚ ।
यः । वा॒म् । हृ॒दि । क्रतु᳚॑मान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श᳚त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम᳚स्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रा को वामित्येकादशर्चं नवमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । अत्रानुक्रमणिका । इन्द्रा को वामेकादशैन्द्रावरुणं त्विति । आभिप्लविकेषूक्थेषु तृतीयसवने मैत्रावरुनशस्त्रेषु स्तोमवृद्धावावापार्थमेतदादिसूक्तद्वयम् । इन्द्रा को वामिति सूक्ते । आ. ७-९ । इति सूत्रितत्वात् ॥

हे इन्द्रा वरुणा हे इन्द्रावरुणौ । परस्परापेक्षया द्विवचनम् । वां युवयोः सुम्नं सुखं कः स्तोमे हविष्मान् हविर्भिरुपेतः सोमाज्यादिप्रदेयद्रव्योपेतं कतमत् स्तोत्रं सुम्नमाप । फलकत्वेन प्राप्नुयाइद्त्यर्थः । यद्वा । हविष्मानित्येतदुत्तरत्र योज्यम् । हविश्मान् हविर्युक्तोऽमृतोऽमरण लक्षनः स्वर्गसाधनो होताग्निरिव । स यथा तथा यः स्तोमो हे इन्द्रावरुणौ वां युवयोर्हृदि हृदये क्रतुमान्प्रज्ञोपेतोऽस्मदस्मत्सकाशादुक्त उदितो नमस्वान्हदिष्मान्नमस्कारोपेतो वा पस्पर्शत् । स्पृशेत् । हृदयङ्गमो भवेत् । स क इति स्तोमप्रशंसा ॥ १ ॥

4.41.2
इन्द्रा᳚ ह॒ यो वरु᳚णा च॒क्र आ॒पी दे॒वौ मर्त᳚ः स॒ख्याय॒ प्रय᳚स्वान् ।
स ह᳚न्ति वृ॒त्रा स᳚मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भि॒ः स प्र शृ᳚ण्वे ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । ह॒ । यः । वरु᳚णा । च॒क्रे । आ॒पी इति᳚ । दे॒वौ । मर्तः᳚ । स॒ख्याय᳚ । प्रय᳚स्वान् ।
सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्॑इ॒थेषु᳚ । शत्रू᳚न् । अवः᳚॑भिः । वा॒ । म॒हत्॑भिः᳚ । सः । प्र । शृ॒ण्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रा वरुणेन्दावरुणौ देवौ । हशब्दः पूरणः प्रसिद्धौ वा । उओ मर्तो वरणधर्मा प्रयस्वान् हविर्लक्षणान्नवान् सन् सख्याय सखित्वायापी बन्धू चक्ते । करोति । समर्तो वृत्रा आवरकाणि पापानि हन्ति । तथा समिथेषु सङ्ग्रामेषु शत्रून् हन्ति । वाशब्दश्चार्थे । महद्भिरवोभी रक्शणैः स नरः प्र शृण्वे । प्रकृष्टं श्रूयते । विख्यातो भवति ॥ २ ॥

4.41.3
इन्द्रा᳚ ह॒ रत्नं॒ वरु᳚णा॒ धेष्ठे॒त्था नृभ्य᳚ः शशमा॒नेभ्य॒स्ता ।
यदी॒ सखा᳚या स॒ख्याय॒ सोमै᳚ः सु॒तेभि᳚ः सुप्र॒यसा᳚ मा॒दयै᳚ते ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । ह॒ । रत्न᳚म् । वरु᳚णा । धेष्ठा᳚ । इ॒त्था । नृ॑भ्यः᳚ । श॒श॒मा॒नेभ्यः᳚ । ता ।
यदि᳚ । सखा᳚या । स॒ख्याय᳚ । सोमैः᳚ । सु॒तेभिः᳚ । सु॒॑प्र॒यसा᳚ । मा॒दयै᳚ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रावरुणौ ता । हेति प्रसिद्धौ । तौ खलु देवावित्थेत्थं नृभ्यो मनुष्येभ्यः शशमानेभ्यः शंसमानेभ्यः स्तोतृभ्योऽस्मभ्यं रत्नं रमणीयम् धनं धेष्ठा दातृतमौ । भवत इति शेशः । यदि सखाया परस्परं यजमानस्य वा सखिभूतौ सख्याय सखिकर्मणे सखित्वाय सुतेभिरभिषुतैः सोमैः सुप्रयासा शोभनसोमान्नवन्तौ मादयैते । माद्येताम् । तर्हि रत्नानां दातारौ भवतः ॥ ३ ॥

4.41.4
इन्द्रा᳚ यु॒वं व᳚रुणा दि॒द्युम᳚स्मि॒न्नोजि᳚ष्ठमुग्रा॒ नि व᳚धिष्टं॒ वज्र᳚म् ।
यो नो᳚ दु॒रेवो᳚ वृ॒कति᳚र्द॒भीति॒स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि᳚ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र᳚म् ।
यः । नः॒ । दुः॒॑एवः᳚ । वृ॒कतिः᳚ । द॒भीतिः᳚ । तस्मि᳚न् । मि॒मा॒था॒म् । अ॒भि॑भू᳚ति । ओजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रा इन्द्रौ वरुना वरुणऔ हे उग्रा उग्रौ । अत्र सर्वत्र परस्परापेक्षया द्विवचनं प्र मित्रयोर्वरुणौयोः । ऋग्वे. ७-६६-१ । इतिवत् । यद्वा । छान्दसत्वाद्व्यवहितस्याप्यानङ् । अस्मिन् शत्रौ दिद्युं दीप्तमोजिष्ठमतिशयेन तेजोवद्वज्रमायुधं नि वधिष्टम् । वधार्थं प्रेरयतमित्यर्थः । यः शत्रुर्नोऽस्माकं दुरेवो दुष्प्रापो वृकतिरतिशयेनादाता दभीतिर्हिंसकस्तस्मिन् शत्रावभिभूत्यभिभावुकमोजो बलं मिमाथाम् । कुरुतमित्यर्थः ॥ ४ ॥

4.41.5
इन्द्रा᳚ यु॒वं व᳚रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव᳚ धे॒नोः ।
सा नो᳚ दुहीय॒द्यव᳚सेव ग॒त्वी स॒हस्र᳚धारा॒ पय᳚सा म॒ही गौः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । यु॒वम् । व॒रु॒णा॒ । भू॒तम् । अ॒स्याः । धि॒यः । प्रे॒तारा᳚ । वृ॒ष॒भा॑इ᳚व । धे॒नोः ।
सा । नः॒ । दु॒ही॒य॒त् । यव᳚सा॑इव । ग॒त्वी । स॒हस्र᳚॑धारा । पय᳚सा । म॒ही । गौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रा वरुणा इन्द्रावरुणौ युवं युवामस्या धियः स्तुत्याः प्रेताराप्रीणयितारौ भूतम् । भवतम् । वृषभा सेक्तारौ वृषभौ धेनोरिव । सा स्तुतिरूपाधेनुर्नोऽस्माकं दुहीयत् । दुह्येत् । कामान् पूरयेत् । वयसा तृणादिघासेन निमित्तेन गत्वी गत्वा पयसा सहस्रधारा मही महती गौरिव ॥ ५ ॥

4.41.6
तो॒के हि॒ते तन᳚य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष᳚णश्च॒ पौंस्ये᳚ ।
इन्द्रा᳚ नो॒ अत्र॒ वरु᳚णा स्याता॒मवो᳚भिर्द॒स्मा परि᳚तक्म्यायाम् ॥
▶ पदपाठः (Word-by-word)
तो॒के । हि॒ते । तन᳚ये । उ॒र्वरा᳚सु । सूरः᳚ । दृशी᳚के । वृष᳚णः । च॒ । पौंस्ये᳚ ।
इन्द्रा᳚ । नः॒ । अत्र᳚ । वरु᳚णा । स्या॒ता॒म् । अवः᳚॑भिः । द॒स्मा । परि᳚॑तक्म्यायाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रावरुणौ देवौ नो हिते तोके पुत्रे तनये तत्पुत्रे चोर्वरासु सस्याढ्यासु भूमिषु निमित्तभूतासु सूरः प्रेरकस्य सूर्यस्य दृशीके चिरकालदर्शनाय । चिरजीवनायेत्यर्थः । तथा वृषणः सेक्तुर्मम पौंस्ये च पुंस्त्वाय च पुनरपि प्रजननसामर्थ्याय च दस्मा शत्रूणां हिंसकौ सन्तौ नोऽस्माकमवोभीरक्षणैः सह परितक्म्यायां परितकने निमित्तभुते सति । यद्वा रात्रिनामैतत् । रात्रौ हिंसकानां वधाय स्याताम् । भवेताम् ॥ ६ ॥

4.41.7
यु॒वामिद्ध्यव᳚से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः᳚ स्वापी ।
वृ॒णी॒महे᳚ स॒ख्याय᳚ प्रि॒याय॒ शूरा॒ मंहि᳚ष्ठा पि॒तरे᳚व श॒म्भू ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । इत् । हि । अव᳚से । पू॒र्व्याय᳚ । परि᳚ । प्रभू᳚ती॒ इति॒ प्र॑भू᳚ती । गो॒॑इषः᳚ । स्वा॒पी॒ इति᳚ सु॑आपी ।
वृ॒णी॒महे᳚ । स॒ख्याय᳚ । प्रि॒याय᳚ । शूरा᳚ । मंहि᳚ष्ठा । पि॒तरा᳚॑इव । श॒म्भू इति᳚ श॒म्॑भू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ गविषो गा इच्छन्तो वयं युवामित् । हीति पादपूरणः । युवामेव पूर्व्याय पुरातनाय युवभ्यां कृतायावसे रक्षणाय । वृणीमह इति सम्बन्धः । प्रभूती प्रभवन्तौ स्वापी शोभनबन्धुभूतौ । आपिरिति बन्धुः । यद्वा । सुष्ठु व्यापनशीलौ शूरा विक्रान्तौ मंहिष्थातिशयेन पूज्यौ युवां सख्याय समानख्यानाय प्रियाय च परि वृणीमहे । परितः प्रार्थयामहे । शम्भू सुखस्य भावयितारौ पितरेव पितरौ पुत्राय तद्वत् ॥ ७ ॥

4.41.8
ता वां॒ धियो॑व᳚से वाज॒यन्ती᳚रा॒जिं न ज᳚ग्मुर्युव॒यूः सु᳚दानू ।
श्रि॒ये न गाव॒ उप॒ सोम᳚मस्थु॒रिन्द्रं॒ गिरो॒ वरु᳚णं मे मनी॒षाः ॥
▶ पदपाठः (Word-by-word)
ताः । वा॒म् । धियः᳚ । अव᳚से । वा॒ज॒॑यन्तीः᳚ । आ॒जिम् । न । ज॒ग्मुः॒ । यु॒व॒॑यूः । सु॒दा॒नू॒ इति᳚ सु॑दानू ।
श्रि॒ये । न । गावः᳚ । उप᳚ । सोम᳚म् । अ॒स्थुः॒ । इन्द्र᳚म् । गिरः᳚ । वरु᳚णम् । मे॒ । म॒नी॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुदानू शोभनफलदातारौ हे देवौ वां युवां वाजयन्ती रत्नमिच्छन्त्यो धियः स्तुतयो जग्मुः । गच्छन्ति । युवयूर्युवां कामयमानाः पदातय अवसे रक्षणाय आजिं न सङ्ग्राममिव । किञ्च श्रिये दध्यादिश्रयणाय गावः सोमं न सोममिवेन्द्रं वरुनं च मे मदीया मनीषा मनस ईश्वरा गिरः स्तुतय उपास्थुः । तिष्ठन्ति । प्रीणयन्तीत्यर्थः ॥ ८ ॥

4.41.9
इ॒मा इन्द्रं॒ वरु᳚णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि᳚णमि॒च्छमा᳚नाः ।
उपे᳚मस्थुर्जो॒ष्टार᳚ इव॒ वस्वो᳚ र॒घ्वीरि᳚व॒ श्रव᳚सो॒ भिक्ष᳚माणाः ॥
▶ पदपाठः (Word-by-word)
इ॒माः । इन्द्र᳚म् । वरु᳚णम् । मे॒ । म॒नी॒षाः । अग्म᳚न् । उप᳚ । द्रवि᳚णम् । इ॒च्छमा᳚नाः ।
उप᳚ । ई॒म् । अ॒स्थुः॒ । जो॒ष्टारः᳚॑इव । वस्वः᳚ । र॒घ्वीः॑इ᳚व । श्रव᳚सः । भिक्ष᳚माणाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रं वरुनं च मे मम मनीषाः स्तुतयो द्रविणमिच्छमानाः सत्य उपाग्मन् । उपगच्छन्ति । जोष्टारः सेवका वस्वो धनस्य लाभाय धनिकं स्वामिनमिव । रघ्वीरिव लघ्व्य इव शीघ्रगामिन्य इव श्रवसोऽन्नस्यान्नं भिक्षमाना एनमिन्द्रं वरुनं चोपास्थुः । उपतिष्थन्ते ॥ ९ ॥

4.41.10 समानपद
अश्व्य᳚स्य॒ त्मना॒ रथ्य᳚स्य पु॒ष्टेर्नित्य᳚स्य रा॒यः पत᳚यः स्याम ।
ता च᳚क्रा॒णा ऊ॒तिभि॒र्नव्य᳚सीभिरस्म॒त्रा रायो᳚ नि॒युतः᳚ सचन्ताम् ॥
▶ पदपाठः (Word-by-word)
अश्व्य᳚स्य । त्मना᳚ । रथ्य᳚स्य । पु॒ष्टेः । नित्य᳚स्य । रा॒यः । पत᳚यः । स्या॒म॒ ।
ता । च॒क्रा॒णौ । ऊ॒ति॑भिः᳚ । नव्य᳚सीभिः । अ॒स्म॒॑त्रा । रायः᳚ । नि॒॑युतः᳚ । स॒च॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्व्यस्याश्वसमूहस्य रथ्यस्य रथरूपस्य रथार्हस्य वा पुष्टेः पोषस्य नित्यस्याविचलितस्य रायो धनस्य त्मनात्मना स्वयमेवाप्रयत्न्न पतयह् स्याम । ता तौ चेवौ चक्राना चङ्क्रममाणौ गन्तारौ । भवतमिति शेषः । नव्यसीभिर्नूतनाभिरूरिभीरक्षाभिरस्मत्रास्मासु नियुतोऽश्वा रायो धनानि च सचन्ताम् । सेवन्ताम् ॥ १० ॥

4.41.11 समानपद
आ नो᳚ बृहन्ता बृह॒तीभि᳚रू॒ती इन्द्र᳚ या॒तं व᳚रुण॒ वाज᳚सातौ ।
यद्दि॒द्यव॒ः पृत᳚नासु प्र॒क्रीळा॒न्तस्य᳚ वां स्याम सनि॒तार᳚ आ॒जेः ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः᳚ । ऊ॒ती । इन्द्र᳚ । या॒तम् । व॒रु॒ण॒ । वाज᳚॑सातौ ।
यत् । दि॒द्यवः᳚ । पृत᳚नासु । प्र॒॑क्रीळा᳚न् । तस्य᳚ । वा॒म् । स्या॒म॒ । स॒नि॒तारः᳚ । आ॒जेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहन्ता महान्तौ हे इन्द्र हे वरुण बृहतीभिर्महतीभिरूती ऊतिभी रक्षाभिः सहा यातम् । आगच्छतम् । वाजसातौ सङ्ग्रामेऽन्नलाभनिमित्तभुते वा यद्यस्मिन्नाजौ सङ्ग्रामे पृतनासु सेनासु दिद्यवः । आयुधनामैतत् । आयुधानि शत्रुसंबन्धीनि प्रक्रीळान् । प्रक्रीडन्ते । तस्य तादृशस्याजेः सनितारः सम्भक्तारह् स्याम । भवेम । वां युवयोरनुग्रहात् ॥ ११ ॥