श्रवणम्

4.41.7
यु॒वामिद्ध्यव᳚से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः᳚ स्वापी ।
वृ॒णी॒महे᳚ स॒ख्याय᳚ प्रि॒याय॒ शूरा॒ मंहि᳚ष्ठा पि॒तरे᳚व श॒म्भू ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । इत् । हि । अव᳚से । पू॒र्व्याय᳚ । परि᳚ । प्रभू᳚ती॒ इति॒ प्र॑भू᳚ती । गो॒॑इषः᳚ । स्वा॒पी॒ इति᳚ सु॑आपी ।
वृ॒णी॒महे᳚ । स॒ख्याय᳚ । प्रि॒याय᳚ । शूरा᳚ । मंहि᳚ष्ठा । पि॒तरा᳚॑इव । श॒म्भू इति᳚ श॒म्॑भू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ गविषो गा इच्छन्तो वयं युवामित् । हीति पादपूरणः । युवामेव पूर्व्याय पुरातनाय युवभ्यां कृतायावसे रक्षणाय । वृणीमह इति सम्बन्धः । प्रभूती प्रभवन्तौ स्वापी शोभनबन्धुभूतौ । आपिरिति बन्धुः । यद्वा । सुष्ठु व्यापनशीलौ शूरा विक्रान्तौ मंहिष्थातिशयेन पूज्यौ युवां सख्याय समानख्यानाय प्रियाय च परि वृणीमहे । परितः प्रार्थयामहे । शम्भू सुखस्य भावयितारौ पितरेव पितरौ पुत्राय तद्वत् ॥ ७ ॥