चतुर्थं मण्डलम् - सूक्तम् 57

8 ऋचः

ऋषिः: वामदेवो गौतमः देवता: क्षेत्रपतिः छन्दः: अनुष्टुप्

सूक्तम् 4.57 - सम्पूर्णम्

1 / 8
ऋक्: 4.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
4.57.1
क्षेत्र᳚स्य॒ पति᳚ना व॒यं हि॒तेने᳚व जयामसि ।
गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ॥
▶ पदपाठः (Word-by-word)
क्षेत्र᳚स्य । पति᳚ना । व॒यम् । हि॒तेन᳚॑इव । ज॒या॒म॒सि॒ ।
गाम् । अश्व᳚म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षेत्रस्य पतिनेत्यष्तर्चं द्वादशं सूक्तं वामदेवस्यार्षम् । आद्याचतुर्थी षष्ठीसप्तम्योऽनुष्टुभः पञ्चमी पुरौष्णिक् । अद्यश्चेत्पुरौष्णिगिति हि तल्लक्शणम् । शिष्टास्तिस्रस्त्रिष्टुभः । आद्यास्तिस्रः क्षेतपतिदेवताकाश्चतुर्थी शुनाख्य देवताका पञ्चम्यष्टम्या शुनासीरदेवताके । षष्ठीसप्तम्यौ सीतादेवताके । तथा चानुक्रमणिका । क्षेत्रस्याष्टौ तिस्रः क्षैत्रपत्याः शुनायैका परा पुरौष्णिक् सान्त्या च शुनासीराभ्यामुपान्त्ये सीतायै ते अनुष्टुभावाद्या च चतुर्थी चेति । क्षेत्रस्य कर्षणेऽनेन सूक्तेन प्रत्युचं जुहुयाज्जपेद्वा । तथा च सुत्रितम् । क्षेत्रस्य कर्षनेऽनेन सुक्तेन प्रत्युचं जुहुयाज्जपेद्वा । आ. गृ. २-१० । अप्तोर्यामे होतुरतिरिक्तोक्थ्य आश्विनशस्त्रादूर्ध्वं चत्वार्यतिरिक्तोक्थ्यानि । तत्राद्या परिधानीया । सूत्रितं च । क्षेत्रस्य पतिना वयमिति परिधानीया । आ. ९-११ । इति ॥

वयम् यजमानाह् क्षेत्रस्य पतिना देवेन । रुद्रं क्षेत्रपतिं प्राहुः केचिदग्निमथापरे । स्रतन्त्र एव वा कश्चित्क्षेत्रस्य पतिरुच्यते । हितेनेव । इवशब्द एवार्थे । सर्वप्राणिहितेनैव तेन । अथवा मित्रेणेव । यथा सख्युः साहाय्ये सन् स्वकार्यं साधयति तद्वत् । जयामसि । जयामः क्षेत्रम् । स देवो गामश्वं च पोषयित्नु पोषयितृ गवाश्वलक्षनं धनमा हरत्विति शेषः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । स एव देवो नोऽस्मानीदृश उक्तलक्षने धने दातव्ये सति मृळाति । सुखयति । क्शेत्रस्य पतिनेत्यादिनिरुक्तम् । १०-१५ । जानीयात् ॥ १ ॥

4.57.2
क्षेत्र᳚स्य पते॒ मधु᳚मन्तमू॒र्मिं धे॒नुरि᳚व॒ पयो᳚ अ॒स्मासु᳚ धुक्ष्व ।
म॒धु॒श्चुतं᳚ घृ॒तमि᳚व॒ सुपू᳚तमृ॒तस्य᳚ न॒ः पत᳚यो मृळयन्तु ॥
▶ पदपाठः (Word-by-word)
क्षेत्र᳚स्य । प॒ते॒ । मधु᳚॑मन्तम् । ऊ॒र्मिम् । धे॒नुः॑इ᳚व । पयः᳚ । अ॒स्मासु᳚ । धु॒क्ष्व॒ ।
म॒धु॒॑श्चुत᳚म् । घृ॒तम्॑इ᳚व । सु॑पू᳚तम् । ऋ॒तस्य᳚ । नः॒ । पत᳚यः । मृ॒ळ॒य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्तोर्यामे मैत्रावरुणस्यातिरिक्तोक्थ्ये परिधानीया । सूत्रितं च । क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया । आ. ९-११ । इति ॥

हे क्षेत्रस्य पते त्वं मधुमन्तं माधुर्योपेतमूर्मिं प्रवृद्धमुदकं धेनुः पय इव सा यथा दुग्धे तथास्मासु धुक्श्व । मधुश्चुतम् मधुस्रावि सूपूतं घृतमिवेत्युपमा । तादृशमुदकमित्यर्थः । रुतस्य यज्ञस्योदकस्य वा पतयः स्वामिनो नोऽस्मान् मृळयन्तु । सुखयन्तु । यद्वा । ऋतस्यैतत्कर्मणि षष्थी । ऋतं म्रुळयन्तु । प्रयच्छन्तु । मृळतिरत्र दानकर्मा ॥ २ ॥

4.57.3
मधु᳚मती॒रोष᳚धी॒र्द्याव॒ आपो॒ मधु᳚मन्नो भवत्व॒न्तरि᳚क्षम् ।
क्षेत्र᳚स्य॒ पति॒र्मधु᳚मान्नो अ॒स्त्वरि᳚ष्यन्तो॒ अन्वे᳚नं चरेम ॥
▶ पदपाठः (Word-by-word)
मधु᳚॑मतीः । ओष᳚धीः । द्यावः᳚ । आपः᳚ । मधु᳚॑मत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि᳚क्षम् ।
क्षेत्र᳚स्य । पतिः᳚ । मधु᳚॑मान् । नः॒ । अ॒स्तु॒ । अरि᳚ष्यन्तः᳚ । अनु᳚ । ए॒न॒म् । च॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ्ये परिधानीयैषा । मधुमतीरोषधीर्द्याव आप इति परिधानीया । आ. ९-११ । इति सूत्रितत्वात् ॥

ऒशधिरोषध्यो व्रीहिप्रियङ्ग्वादयो नोऽस्मभ्यम् मधुमतीर्मधुमत्योभवन्तु । तथा द्यावः । तिस्रो दिव इत्युक्तत्वाद्बहुवचनं युक्तम् । तथापोऽन्तरिक्षम् च नो मधुमद्भवतु । किञ्च क्षेत्रस्य पतिरपि मधुमान्नोऽस्तु । अरिष्यन्तोऽन्यैरहिंस्यन्तो वयमेनं क्षेत्रपतिमनु अनुसृत्य चरेम । सञ्चरेम सुखेन ॥ ३ ॥

4.57.4 समानपद
शु॒नं वा॒हाः शु॒नं नरः᳚ शु॒नं कृ᳚षतु॒ लाङ्ग᳚लम् ।
शु॒नं व᳚र॒त्रा ब᳚ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । वा॒हाः । शु॒नम् । नरः᳚ । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग᳚लम् ।
शु॒नम् । व॒र॒त्राः । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा᳚म् । उत् । इ॒ङ्ग॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाहा बलीवर्दाः शुनम् । सुखानामैतत् । सुखं यथा भवति तथा वहन्त्विति शेशः । तथा नरो नेतारो मनुष्याः कर्षकाः शुनं कुर्वन्तु । तथा लाङ्गलमपि शुनं कृषतु । वरत्रा वरणेन त्रायमाणाः प्रग्रहाः शुनं बध्यन्ताम् । अष्ट्रां प्रतोदं शुनमुदिङ्गय । प्रेरय । शुनाख्यो वाय्विन्द्रयोरन्यतमः सुखकृद्देवः । तदनुग्रहादेतत्सर्वं भवत्विति । तस्य श्रुतिसामान्येन स्तुतिः ॥ ४ ॥

4.57.5
शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथु॒ः पयः᳚ ।
तेने॒मामुप᳚ सिञ्चतम् ॥
▶ पदपाठः (Word-by-word)
शुना᳚सीरौ । इ॒माम् । वाच᳚म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः᳚ । पयः᳚ ।
तेन᳚ । इ॒माम् । उप᳚ । सि॒ञ्च॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुनासीरीये पर्वणि शुनासीरदेवताकस्य हविषोऽनुवाक्यैषान्त्या ऋक् यज्या । सुत्रितं च । शुनासीराविमां वाचं जुषेथां शुनं नः फालाः । आ. २-२० । इति ॥

द्युदेवः शुनदेवतेति शौनकः । अतः शुन इन्द्रः सीरो वायुः । शुनो वायुः शु एत्यन्तरिक्षे सीर आदित्यः सरणात् । नि. ९-४० । इति यास्कः । हे शुनासीरौ तौ युवामिमां वक्ष्यमाणां मदीयां वाचं ज्य्शेथाम् । यत्पयो दिवि चक्रथुःतेनेमां भूमिमुप सिञ्चतम् ॥ ५ ॥

4.57.6
अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा ।
यथा᳚ नः सु॒भगास᳚सि॒ यथा᳚ नः सु॒फलास᳚सि ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाची᳚ । सु॒॑भ॒गे॒ । भ॒व॒ । सीते᳚ । वन्दा᳚महे । त्वा॒ ।
यथा᳚ । नः॒ । सु॒॑भगा᳚ । अस᳚सि । यथा᳚ । नः॒ । सु॒फला᳚ । अस᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुभगे सीते त्वमर्वाच्यर्वागञ्चना भव । त्वा त्वां वन्दामहे । स्तुवीमहि । यथा नः सुभागाससि । शोभनधना भवसि । यथा नः सुफलाससि तथा मन्दामहे ॥ ६ ॥

4.57.7
इन्द्र॒ः सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु᳚ यच्छतु ।
सा न॒ः पय᳚स्वती दुहा॒मुत्त᳚रामुत्तरां॒ समा᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सीता᳚म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु᳚ । य॒च्छ॒तु॒ ।
सा । नः॒ । पय᳚स्वती । दु॒हा॒म् । उत्त᳚राम्॑उत्तराम् । समा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो देवः सीतां सीताधारकाष्ठाम् नि गृह्णातु । तां सीतां पूषा देवोऽनु यच्छतु । नियमयत् । सा द्यौः पयस्वत्युदकवती दुहाम् । दुह्यात् । कदेति तदुच्यते । उत्तरामुत्तरां समामुत्तरमुत्तरं संवत्सरम् ॥ ७ ॥

4.57.8
शु॒नं न॒ः फाला॒ वि कृ᳚षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚ अ॒भि य᳚न्तु वा॒हैः ।
शु॒नं प॒र्जन्यो॒ मधु᳚ना॒ पयो᳚भि॒ः शुना᳚सीरा शु॒नम॒स्मासु᳚ धत्तम् ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । नः॒ । फालाः᳚ । वि । कृ॒ष॒न्तु॒ । भूमि᳚म् । शु॒नम् । की॒नाशाः᳚ । अ॒भि । य॒न्तु॒ । वा॒हैः ।
शु॒नम् । प॒र्जन्यः᳚ । मधु᳚ना । पयः᳚॑भिः । शुना᳚सीरा । शु॒नम् । अ॒स्मासु᳚ । ध॒त्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्या अष्टम्या विनियोगः शुनासीराविमामित्यत्रोक्तः ॥

नो भूमिं फाला भूमिविदारककाष्ठाः शुनं वि कृषन्तु । शुनं यथा भवति तथा । कीनाशा बलीवर्दरक्षका वाहैर्बलीवर्दैरभि यन्तु । आभिगच्छन्तु । शुनं यथा भवति तथा । पर्जन्यो मधुना मधुरैः पयोभिरुदकैः सञ्चतु । हे शुनासीरा इन्द्रवायू वाय्वादित्यौ वा शुनं सुखमस्मासु धत्तम् । धारयन्तं ॥ ८ ॥