क्षेत्र᳚स्य पते॒ मधु᳚मन्तमू॒र्मिं धे॒नुरि᳚व॒ पयो᳚ अ॒स्मासु᳚ धुक्ष्व ।
म॒धु॒श्चुतं᳚ घृ॒तमि᳚व॒ सुपू᳚तमृ॒तस्य᳚ न॒ः पत᳚यो मृळयन्तु ॥
म॒धु॒श्चुतं᳚ घृ॒तमि᳚व॒ सुपू᳚तमृ॒तस्य᳚ न॒ः पत᳚यो मृळयन्तु ॥
पदपाठः (Word-by-word)
क्षेत्र᳚स्य । प॒ते॒ । मधु᳚॑मन्तम् । ऊ॒र्मिम् । धे॒नुः॑इ᳚व । पयः᳚ । अ॒स्मासु᳚ । धु॒क्ष्व॒ ।
म॒धु॒॑श्चुत᳚म् । घृ॒तम्॑इ᳚व । सु॑पू᳚तम् । ऋ॒तस्य᳚ । नः॒ । पत᳚यः । मृ॒ळ॒य॒न्तु॒ ॥
म॒धु॒॑श्चुत᳚म् । घृ॒तम्॑इ᳚व । सु॑पू᳚तम् । ऋ॒तस्य᳚ । नः॒ । पत᳚यः । मृ॒ळ॒य॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
अप्तोर्यामे मैत्रावरुणस्यातिरिक्तोक्थ्ये परिधानीया । सूत्रितं च । क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया । आ. ९-११ । इति ॥
हे क्षेत्रस्य पते त्वं मधुमन्तं माधुर्योपेतमूर्मिं प्रवृद्धमुदकं धेनुः पय इव सा यथा दुग्धे तथास्मासु धुक्श्व । मधुश्चुतम् मधुस्रावि सूपूतं घृतमिवेत्युपमा । तादृशमुदकमित्यर्थः । रुतस्य यज्ञस्योदकस्य वा पतयः स्वामिनो नोऽस्मान् मृळयन्तु । सुखयन्तु । यद्वा । ऋतस्यैतत्कर्मणि षष्थी । ऋतं म्रुळयन्तु । प्रयच्छन्तु । मृळतिरत्र दानकर्मा ॥ २ ॥