शु॒नं न॒ः फाला॒ वि कृ᳚षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚ अ॒भि य᳚न्तु वा॒हैः ।
शु॒नं प॒र्जन्यो॒ मधु᳚ना॒ पयो᳚भि॒ः शुना᳚सीरा शु॒नम॒स्मासु᳚ धत्तम् ॥
शु॒नं प॒र्जन्यो॒ मधु᳚ना॒ पयो᳚भि॒ः शुना᳚सीरा शु॒नम॒स्मासु᳚ धत्तम् ॥
पदपाठः (Word-by-word)
शु॒नम् । नः॒ । फालाः᳚ । वि । कृ॒ष॒न्तु॒ । भूमि᳚म् । शु॒नम् । की॒नाशाः᳚ । अ॒भि । य॒न्तु॒ । वा॒हैः ।
शु॒नम् । प॒र्जन्यः᳚ । मधु᳚ना । पयः᳚॑भिः । शुना᳚सीरा । शु॒नम् । अ॒स्मासु᳚ । ध॒त्त॒म् ॥
शु॒नम् । प॒र्जन्यः᳚ । मधु᳚ना । पयः᳚॑भिः । शुना᳚सीरा । शु॒नम् । अ॒स्मासु᳚ । ध॒त्त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अस्या अष्टम्या विनियोगः शुनासीराविमामित्यत्रोक्तः ॥
नो भूमिं फाला भूमिविदारककाष्ठाः शुनं वि कृषन्तु । शुनं यथा भवति तथा । कीनाशा बलीवर्दरक्षका वाहैर्बलीवर्दैरभि यन्तु । आभिगच्छन्तु । शुनं यथा भवति तथा । पर्जन्यो मधुना मधुरैः पयोभिरुदकैः सञ्चतु । हे शुनासीरा इन्द्रवायू वाय्वादित्यौ वा शुनं सुखमस्मासु धत्तम् । धारयन्तं ॥ ८ ॥