अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा ।
यथा᳚ नः सु॒भगास᳚सि॒ यथा᳚ नः सु॒फलास᳚सि ॥
यथा᳚ नः सु॒भगास᳚सि॒ यथा᳚ नः सु॒फलास᳚सि ॥
पदपाठः (Word-by-word)
अ॒र्वाची᳚ । सु॒॑भ॒गे॒ । भ॒व॒ । सीते᳚ । वन्दा᳚महे । त्वा॒ ।
यथा᳚ । नः॒ । सु॒॑भगा᳚ । अस᳚सि । यथा᳚ । नः॒ । सु॒फला᳚ । अस᳚सि ॥
यथा᳚ । नः॒ । सु॒॑भगा᳚ । अस᳚सि । यथा᳚ । नः॒ । सु॒फला᳚ । अस᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हे सुभगे सीते त्वमर्वाच्यर्वागञ्चना भव । त्वा त्वां वन्दामहे । स्तुवीमहि । यथा नः सुभागाससि । शोभनधना भवसि । यथा नः सुफलाससि तथा मन्दामहे ॥ ६ ॥