मधु᳚मती॒रोष᳚धी॒र्द्याव॒ आपो॒ मधु᳚मन्नो भवत्व॒न्तरि᳚क्षम् ।
क्षेत्र᳚स्य॒ पति॒र्मधु᳚मान्नो अ॒स्त्वरि᳚ष्यन्तो॒ अन्वे᳚नं चरेम ॥
क्षेत्र᳚स्य॒ पति॒र्मधु᳚मान्नो अ॒स्त्वरि᳚ष्यन्तो॒ अन्वे᳚नं चरेम ॥
पदपाठः (Word-by-word)
मधु᳚॑मतीः । ओष᳚धीः । द्यावः᳚ । आपः᳚ । मधु᳚॑मत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि᳚क्षम् ।
क्षेत्र᳚स्य । पतिः᳚ । मधु᳚॑मान् । नः॒ । अ॒स्तु॒ । अरि᳚ष्यन्तः᳚ । अनु᳚ । ए॒न॒म् । च॒रे॒म॒ ॥
क्षेत्र᳚स्य । पतिः᳚ । मधु᳚॑मान् । नः॒ । अ॒स्तु॒ । अरि᳚ष्यन्तः᳚ । अनु᳚ । ए॒न॒म् । च॒रे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ्ये परिधानीयैषा । मधुमतीरोषधीर्द्याव आप इति परिधानीया । आ. ९-११ । इति सूत्रितत्वात् ॥
ऒशधिरोषध्यो व्रीहिप्रियङ्ग्वादयो नोऽस्मभ्यम् मधुमतीर्मधुमत्योभवन्तु । तथा द्यावः । तिस्रो दिव इत्युक्तत्वाद्बहुवचनं युक्तम् । तथापोऽन्तरिक्षम् च नो मधुमद्भवतु । किञ्च क्षेत्रस्य पतिरपि मधुमान्नोऽस्तु । अरिष्यन्तोऽन्यैरहिंस्यन्तो वयमेनं क्षेत्रपतिमनु अनुसृत्य चरेम । सञ्चरेम सुखेन ॥ ३ ॥