चतुर्थं मण्डलम् - सूक्तम् 40

5 ऋचः

ऋषिः: वामदेवो गौतमः देवता: दधिक्राः छन्दः: त्रिष्टुप्

सूक्तम् 4.40 - सम्पूर्णम्

1 / 5
ऋक्: 4.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
4.40.1
द॒धि॒क्राव्ण॒ इदु॒ नु च᳚र्किराम॒ विश्वा॒ इन्मामु॒षसः᳚ सूदयन्तु ।
अ॒पाम॒ग्नेरु॒षस॒ः सूर्य᳚स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य᳚ जि॒ष्णोः ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राव्णः᳚ । इत् । ऊं॒ इति᳚ । नु । च॒र्कि॒रा॒म॒ । विश्वा᳚ । इत् । माम् । उ॒षसः᳚ । सू॒द॒य॒न्तु॒ ।
अ॒पाम् । अ॒ग्नेः । उ॒षसः᳚ । सूर्य᳚स्य । बृह॒स्पतेः᳚ । आ॒ङ्गि॒र॒सस्य᳚ । जि॒ष्णोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्राव्ण इदिति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षं दाधिक्रम् । आद्यात्रिष्टुप् शिष्टा जगत्यः । हंसः शुचिषदित्येषा सूर्यदेवताका । तथा चानुक्रमणिका । दधिक्राव्णः पञ्च चतस्रोऽन्त्या जगत्योऽन्त्या सौरीति । सूक्तविनियोगो लैङ्गिकः ॥

दधिक्राव्ण इदु एतन्नामकस्य देवस्यैव स्तुतिं नु क्षिप्रं च र्किराम । भृशम् करवाम । मां दिश्वा इदुषसः सर्वा अपि ताः सूदयन्तु । कर्मसु प्रेरयन्तु । अहमप्यबादिदेवतानां स्तुतिं करवानीति शेषः । तासामपि निवातभाक्त्वात् स्तुतिरविरुद्धा ॥ १ ॥

4.40.2
सत्वा᳚ भरि॒षो ग᳚वि॒षो दु᳚वन्य॒सच्छ्र᳚व॒स्यादि॒ष उ॒षस᳚स्तुरण्य॒सत् ।
स॒त्यो द्र॒वो द्र᳚व॒रः प᳚तंग॒रो द᳚धि॒क्रावेष॒मूर्जं॒ स्व᳚र्जनत् ॥
▶ पदपाठः (Word-by-word)
सत्वा᳚ । भ॒रि॒षः । गो॒॑इ॒षः । दु॒व॒न्य॒॑सत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः᳚ । तु॒र॒ण्य॒॑सत् ।
स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒॑क्रावा᳚ । इष᳚म् । ऊर्ज᳚म् । स्वः᳚ । ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्वा गन्ता भरिषो भरणकुशलो गविषो गवां प्रेरक एष्टा वा दुवन्यसत् । दुवः परिचरणमिच्छन्तो दुवन्याः । तेषु सीदतिति दुवन्यसत् । इष इष्यमाणाया उषसः सम्बन्धिनि काल इत्यर्थः । यद्वा । इश एष्टा एषणीयो वा । श्रवस्यात् । श्रवस्येत् । अन्नमिच्छेत् । किञ्च तुरण्यसत् । त्वरया सीदतिति तुरण्यसत् । सत्यः सत्सु तायमानो द्रवो गन्ता द्रवरः प्रकृष्टवेगवान् पतङ्गरः । पतनेनोत्प्लवनेन पतनं पतङ्गः । तद्वान् पतङ्गरः । उक्तलक्षणो दधिक्रावा देव इषमन्नमूर्जं बलं स्वः स्वर्गं च जनत् । जनयेत् । उत्पादयेत् ॥ २ ॥

4.40.3
उ॒त स्मा᳚स्य॒ द्रव᳚तस्तुरण्य॒तः प॒र्णं न वेरनु᳚ वाति प्रग॒र्धिनः᳚ ।
श्ये॒नस्ये᳚व॒ ध्रज᳚तो अङ्क॒सं परि᳚ दधि॒क्राव्ण᳚ः स॒होर्जा तरि᳚त्रतः ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । अ॒स्य॒ । द्रव᳚तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु᳚ । वा॒ति॒ । प्र॒॑ग॒र्धिनः᳚ ।
श्ये॒नस्य᳚॑इव । ध्रज᳚तः । अ॒ङ्क॒सम् । परि᳚ । द॒धि॒॑क्राव्णः᳚ । स॒ह । ऊ॒र्जा । तरि᳚त्रतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपि च खलु द्रवतो गच्छतस्तुरण्यतस्त्वरमाणस्य प्रगर्धिनः प्रकर्षेणाभिकाङ्क्षतोऽस्य देवस्य गतिं वेर्गन्तुः पक्षिणः पर्नं न गमनं पत्रं वानुसृत्य यथा वान्त्यन्ये पक्षिणस्तद्वदनु वाति सर्वो वेगवान् जनः । सर्वेषामपि शीघ्रगामीत्यर्थः । किञ्च ध्रजतो गच्छतस्तरित्रतस्तारयतोऽन्यान् । अन्तर्भावितण्यर्थोयम् । श्येनस्येवांकसं पादाधारमुरः प्रदेशं वा परि परित ऊर्जा बलेन निमित्तेनान्नार्थं वा सहैकीभूय । सङ्घेन गच्छन्तीति शेषः ॥ ३ ॥

4.40.4
उ॒त स्य वा॒जी क्षि᳚प॒णिं तु᳚रण्यति ग्री॒वायां᳚ ब॒द्धो अ᳚पिक॒क्ष आ॒सनि᳚ ।
क्रतुं᳚ दधि॒क्रा अनु᳚ सं॒तवी᳚त्वत्प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया᳚म् । ब॒द्धः । अ॒पि॒॑क॒क्षे । आ॒सनि᳚ ।
क्रतु᳚म् । द॒धि॒॑क्राः । अनु᳚ । स॒म्॑तवी᳚त्वत् । प॒थाम् । अङ्कां᳚सि । अनु᳚ । आ॒॑पनी᳚फणत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च स्य स वाजी वेजनवानश्वरूपो देवो ग्रीवायां गरणसाधनायां कण्ठे बद्धोऽपिकक्षे कक्षप्रदेश आसन्यास्ये च बद्धः । बद्धपल्यङ्कस्योक्तेषु स्थानेषु पाशबन्धाः सम्भवन्ति । एवं बद्धः सन् क्षिपणिं क्षेपणमनु तुरण्यति । त्वरयति गन्तुम् । किञ्चायं दधिक्रा देवः क्रतुं कर्म प्रज्ञां वान्वनुसृत्य सन्तवीत्वत् प्रवृद्धबलवान् सन् पथां मार्गाणामङ्कांसि किटिलान्यनुस्रुत्यापनीफणत् । सर्वतो भृशं गच्छति ॥ फणतेर्गत्यर्थस्य यङ् लिकीदं रूपम् । अपि स वाजी वेजनवानित्यादिनिरुक्तमनुसन्धेयम् । नि. २-२८ ॥ ४ ॥

4.40.5
हं॒सः शु᳚चि॒षद्वसु᳚रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति᳚थिर्दुरोण॒सत् ।
नृ॒षद्व᳚र॒सदृ᳚त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ᳚त॒जा अ᳚द्रि॒जा ऋ॒तम् ॥
▶ पदपाठः (Word-by-word)
हं॒सः । शु॒चि॒॑सत् । वसुः᳚ । अ॒न्त॒रि॒क्ष॒॑सत् । होता᳚ । वे॒दि॒॑सत् । अति᳚थिः । दु॒रो॒ण॒॑सत् ।
नृ॒॑सत् । व॒र॒॑सत् । ऋ॒त॒॑सत् । व्यो॒म॒॑सत् । अ॒प्॑जाः । गो॒॑जाः । ऋ॒त॒॑जाः । अ॒द्रि॒॑जाः । ऋ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणशस्त्रे हंसः शुचिषदित्येषा । आहूय दूरोहणं रोहेद्धंसः शुचिषदिति पच्छोऽर्धर्चशः । आ. ८-२ । इति सूत्रम् । स्मार्तविनियोगमाह शौनकः । हंसः शुचिषदित्यृचा शुचीरीक्षेद्दिवाकरम् । अन्तकाले जपन्नेति ब्रह्मणः सद्म शाश्वतम् । ऋग्वि. २-१३ ॥ इति ॥

अनया सौर्यर्चा य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः । छां. उ. १-६-६ । इत्यादिश्रुत्युक्तो मण्डलाभिमानी देवोऽस्ति यश्च सर्वप्राणिचित्तरूपस्थितः परमात्मा यच्च निरस्तसमस्तौपाधिकं परं ब्रह्म तत्सर्वमेकमेवेति प्रतिपाद्यते । हंसः । हन्तिर्गत्यर्थः । सर्वत्र सर्वदा गन्ता योऽहं सोऽसावित्यादिश्रुत्युक्तप्रकारेणैकिकृत्योपास्यः परमात्ममन्त्रप्रतिपाद्य आदित्यः । स च शुचौ दीप्ते द्युलोके सीदतीति शुचिषत् । अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादिश्रुतेः । अनेन द्युस्थान आदित्यः प्रतिवादितः । स एव मध्यस्थानो वायुरित्याद । वसुः सर्वस्य वासयिता वायुः । स चान्तरिक्षसदन्तरिक्षसञ्चारी । अथ तस्यैव क्षितिस्थानवैदिकाग्निरूपतामाह । होता देवानामाह्वाता होमनिष्पादको वा वेदिषद्वेद्यां गार्हपत्यादिरूपेण स्थितः । अतिथिरतिथिवत्सर्वदा पूज्योऽग्निः । दुरोणसत् । दुरोणं गृहनाम । तत्र पाकादिसाधनत्वेन स्थितः । अनेन लौकिकाग्न्यात्मकत्वमुक्तम् । नृषत् । नृषु मनुष्येषु चैतन्यरूपेण सीदतिति नृषत् । अनेन परमात्मरूपत्वमुक्तम् । पुनरप्यादित्यात्मतामाह । वरसत् । वरे वरणीय मण्डले सीदतीति वरसदादित्यः । वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपतिति हि श्रूयते । ऋतं सत्यं ब्रह्म यज्ञो वा । तत्र सीदतीत्यृतसदग्निः । व्योमान्तरिक्षम् । तत्र सीदतीति व्योमसद्वायुः । इदानीमादित्यतोच्यते । अब्जा उदकेषु जातः । उदकमध्ये खल्वहं जायते । गोजा गोषु रश्मिषु जातः । ऋतं सत्यं सर्वैर्दृश्यत्वेन सत्यजातः । न ह्यसाविन्द्रदिवत्परोक्षो भवति । यद्वा । उदकेषु वैद्युतरूपेण वा वाडवरूपेण वा जातः । अद्रिजा अद्रावुदयाचले जातः । एवं महानुभाव आदित्य ऋतं सत्यमबाध्यं सर्वाधिष्थानं ब्रह्मतत्त्वम् । तद्रूपोह्यसावेव । अदित्यस्योक्तरूपत्वं हंसः शुचिषदित्येष वै हंसः शुचिषदित्यादिना ब्राह्मणे । ऐ. ब्रां. ४-२० । समाम्नातम् ॥ ५ ॥