श्रवणम्

4.40.3
उ॒त स्मा᳚स्य॒ द्रव᳚तस्तुरण्य॒तः प॒र्णं न वेरनु᳚ वाति प्रग॒र्धिनः᳚ ।
श्ये॒नस्ये᳚व॒ ध्रज᳚तो अङ्क॒सं परि᳚ दधि॒क्राव्ण᳚ः स॒होर्जा तरि᳚त्रतः ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । अ॒स्य॒ । द्रव᳚तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु᳚ । वा॒ति॒ । प्र॒॑ग॒र्धिनः᳚ ।
श्ये॒नस्य᳚॑इव । ध्रज᳚तः । अ॒ङ्क॒सम् । परि᳚ । द॒धि॒॑क्राव्णः᳚ । स॒ह । ऊ॒र्जा । तरि᳚त्रतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतस्म अपि च खलु द्रवतो गच्छतस्तुरण्यतस्त्वरमाणस्य प्रगर्धिनः प्रकर्षेणाभिकाङ्क्षतोऽस्य देवस्य गतिं वेर्गन्तुः पक्षिणः पर्नं न गमनं पत्रं वानुसृत्य यथा वान्त्यन्ये पक्षिणस्तद्वदनु वाति सर्वो वेगवान् जनः । सर्वेषामपि शीघ्रगामीत्यर्थः । किञ्च ध्रजतो गच्छतस्तरित्रतस्तारयतोऽन्यान् । अन्तर्भावितण्यर्थोयम् । श्येनस्येवांकसं पादाधारमुरः प्रदेशं वा परि परित ऊर्जा बलेन निमित्तेनान्नार्थं वा सहैकीभूय । सङ्घेन गच्छन्तीति शेषः ॥ ३ ॥