चतुर्थं मण्डलम् - सूक्तम् 56

7 ऋचः

ऋषिः: वामदेवो गौतमः देवता: द्यावापृथिव्यौ छन्दः: त्रिष्टुप्

सूक्तम् 4.56 - सम्पूर्णम्

1 / 7
ऋक्: 4.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.56.1
म॒ही द्यावा᳚पृथि॒वी इ॒ह ज्येष्ठे᳚ रु॒चा भ᳚वतां शु॒चय᳚द्भिर॒र्कैः ।
यत्सीं॒ वरि᳚ष्ठे बृह॒ती वि᳚मि॒न्वन्रु॒वद्धो॒क्षा प᳚प्रथा॒नेभि॒रेवै᳚ः ॥
▶ पदपाठः (Word-by-word)
म॒ही इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । इ॒ह । ज्येष्ठे॒ इति᳚ । रु॒चा । भ॒व॒ता॒म् । शु॒चय᳚त्॑भिः । अ॒र्कैः ।
यत् । सी॒म् । वरि᳚ष्ठे॒ इति᳚ । बृ॒ह॒ती इति᳚ । वि॒॑मि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः᳚ । एवैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मही द्यावापृथिवी इति सप्तर्चमेकादशं सूक्तं वामदेवस्यार्षं द्यावापृथिव्यम् । पूर्वत्र त्रिगायत्र्यन्तं त्वित्युक्तत्वात्पञ्चम्याद्यास्तिस्रो गायत्र्यः शिष्टास्त्रिष्टुभः । मही सप्त द्यावापृथिवीयमित्यनुक्रमणिका । व्यूधे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्र आदितश्चतुर्रुचं द्याव्यापृथिव्यनिविद्धानीयम् । तथा च सुत्रितम् । मही द्यावापृथिवी इति चतस्र ऋभिर्विभ्वा । आ. ८-८ । इति ॥

इह यज्ञे मही महत्यौ ज्येष्थे प्रशस्ये द्यावापृथिवी द्यावापृहिव्यौ रुचा दीप्त्या युक्ते शुचयद्भिर्दीपयद्भिरर्कैर्मन्त्रैः सोमादिहविर्भिर्वायुक्ते भवताम् । यत् यस्मात् सीं सर्वतो वरिष्ठे उरुतरे बृहती महत्यौ द्यावापृथिव्यौ विमिन्वन् परिछिन्दन् स्थापयन् उक्षा सेक्ता पर्जन्यः पप्रथानेभिः प्रथमानैरेवैर्गमनशीलैर्मरुद्भिर्मेघैर्वा सह रुवत् । रौति । शब्दं करोति । हेति पूरणः । तस्माद्रुचा भवतामिति सम्बन्धः ॥ १ ॥

4.56.2 समानपद
दे॒वी दे॒वेभि᳚र्यज॒ते यज᳚त्रै॒रमि᳚नती तस्थतुरु॒क्षमा᳚णे ।
ऋ॒ताव᳚री अ॒द्रुहा᳚ दे॒वपु᳚त्रे य॒ज्ञस्य᳚ ने॒त्री शु॒चय᳚द्भिर॒र्कैः ॥
▶ पदपाठः (Word-by-word)
दे॒वी इति᳚ । दे॒वेभिः᳚ । य॒ज॒ते इति᳚ । यज᳚त्रैः । अमि᳚नती॒ इति᳚ । त॒स्थ॒तुः॒ । उ॒क्षमा᳚णे॒ इति᳚ ।
ऋ॒तव᳚री॒ इत्यृ॒त॑व᳚री । अ॒द्रुहा᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । य॒ज्ञस्य᳚ । ने॒त्री इति᳚ । शु॒चय᳚त्॑भिः । अ॒र्कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी देव्यौ यजते यष्टव्ये अमिनती प्रजा अहिंसत्यावुक्षमाणे सिञ्चत्यावृतावरी ऋतावत्यावद्रुहाद्रोग्ध्र्यौ द्रोहमकुर्वत्यौ देवपुत्रे देवोत्पादिक्यौ यज्ञस्य नेत्री निर्वाहयित्र्यौ द्यावापृथिव्यौ देवेभिर्देवैर्यजमात्रैर्यष्टव्यैः सहिते शुचयद्भिः शोचयद्भिरर्कैर्मन्त्रैर्हविर्भिर्वा युक्ते तस्थतुः । तिष्थतः । स्यातामित्यर्थः ॥ २ ॥

4.56.3 समानपद
स इत्स्वपा॒ भुव᳚नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान᳚ ।
उ॒र्वी ग᳚भी॒रे रज᳚सी सु॒मेके᳚ अवं॒शे धीर॒ः शच्या॒ समै᳚रत् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । सु॒॑अपाः᳚ । भुव᳚नेषु । आ॒स॒ । यः । इ॒मे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । ज॒जान᳚ ।
उ॒र्वी इति᳚ । ग॒भी॒रे इति᳚ । रज᳚सी॒ इति᳚ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । अ॒वं॒शे । धीरः᳚ । शच्या᳚ । सम् । ऐ॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत्स एव स्वपाः शोभनकर्मा सन् भुवनेष्वास । आस्ते । य इमे द्यावापृथिवी द्यावापृथिव्यौ जजान उत्पादितवान् । यश्च प्रजापतिरुर्वी उर्व्यौ विस्तीर्णे गभीरे अविचले सुमेके शोभनरूपे अवम्शे उत्पत्तिरहिते अनाधारे वान्तरिक्षे धीरो धीमान् शच्या कुशलकर्मणा समैरत् । सम्यक् प्रेरितवान् । स एव स्वपा इति ॥ ३ ॥

4.56.4
नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थै॒ः पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषा᳚ः ।
उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्य᳚ः सदा॒साः ॥
▶ पदपाठः (Word-by-word)
नु । रो॒द॒सी॒ इति᳚ । बृ॒हत्॑भिः᳚ । नः॒ । वरू᳚थैः । पत्नी᳚वत्॑भिः । इ॒षय᳚न्ती॒ इति᳚ । स॒॑जोषाः᳚ ।
उ॒रू॒ची इति᳚ । विश्वे॒ इति᳚ । य॒ज॒तेे इति᳚ । नि । पा॒त॒म् । धि॒या । स्या॒म॒ । र॒थ्यः᳚ । स॒दा॒॑साः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रोदसी द्यावा पृथिव्यौ नु क्शिप्रं पत्नीवद्भिः पत्नी सहितैर्बृहद्भिर्महद्भिर्वरुथैर्गृहैर्धनैर्वा सहेषयन्ती अस्माकमन्नमिच्छन्त्यौ सजोषाः परस्परं सङ्गते उरूची उर्वञ्चने विश्वे व्याप्ते यजते यष्तव्ये सत्यौ नोऽस्मान् निपातम् । नितराम् रक्शतम् । धियेत्यादि गतम् ॥ ४ ॥

4.56.5
प्र वां॒ महि॒ द्यवी᳚ अ॒भ्युप᳚स्तुतिं भरामहे ।
शुची॒ उप॒ प्रश᳚स्तये ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । महि᳚ । द्यवी॒ इति᳚ । अ॒भि । उप᳚॑स्तुतिम् । भ॒रा॒म॒हे॒ ।
शुची॒ इति᳚ । उप᳚ । प्र॑श᳚स्तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र वामित्यादिगायत्रस्तृचो व्यूढे दशरात्रे वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानीयत्वेन प्रक्षेप्यः । तथा च सुत्रितम् । प्र वां महि द्यवि इति तृचौ । आ. ८-११ । इति ॥

हे द्यावापृथिव्यौ द्यवी द्योतमाने वां युवाभ्यामुपस्तुतिं स्तोत्रं महि महत्प्रभूतमभि प्र भरामहे । प्रकर्षेण सम्पादयामः । शुची शुद्धे युवां प्रशस्तये प्रशंसितुमुप । उपसर्गश्रुतेरुचितक्रियाध्याहारः । उप गच्छाम इति शेशः ॥ ५ ॥

4.56.6
पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः ।
ऊ॒ह्याथे᳚ स॒नादृ॒तम् ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒ने इति᳚ । त॒न्वा᳚ । मि॒थः । स्वेन᳚ । दक्षे᳚ण । रा॒ज॒थः॒ ।
ऊ॒ह्याथे॒ इति᳚ । स॒नात् । ऋ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव्यौ तन्वा स्वकीयया मूर्त्या स्वेन दक्षेण बलेन च मिथः प्रत्येकं पुनाने शोधयन्त्यौ यज्ञं यजमानं वा युवां राजथः । यद्वा । तन्वा स्वस्वशरीरैकदेशेन मिथः परस्परं पुनाने शोधयन्तौ । द्यौः स्वीयेनासारेण भुवं सा च स्वकीयेन कार्श्येन चन्द्रमसि स्थितेन दिवमिति विवेकः । सनात्सदाकालमृतं यज्ञमूह्याथे । वहथः ॥ ६ ॥

4.56.7
म॒ही मि॒त्रस्य᳚ साधथ॒स्तर᳚न्ती॒ पिप्र᳚ती ऋ॒तम् ।
परि᳚ य॒ज्ञं नि षे᳚दथुः ॥
▶ पदपाठः (Word-by-word)
म॒ही इति᳚ । मि॒त्रस्य᳚ । सा॒ध॒थः॒ । तर᳚न्ती॒ इति᳚ । पिप्र᳚ती॒ इति᳚ । ऋ॒तम् ।
परि᳚ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मही महतौ द्यावापृथिव्यौ मित्रस्य मित्रभुतस्य स्तोतुरभिमतं साधथः । ऋतमन्नं तरन्ती तारयन्त्यौ पिप्रती पूरयन्त्यौ यज्ञम् परि परितो नि षेदथुः । आश्रयतः ॥ ७ ॥