चतुर्थं मण्डलम् - सूक्तम् 39

6 ऋचः

ऋषिः: वामदेवो गौतमः देवता: दधिक्राः छन्दः: त्रिष्टुप्

सूक्तम् 4.39 - सम्पूर्णम्

1 / 6
ऋक्: 4.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
4.39.1
आ॒शुं द᳚धि॒क्रां तमु॒ नु ष्ट᳚वाम दि॒वस्पृ᳚थि॒व्या उ॒त च᳚र्किराम ।
उ॒च्छन्ती॒र्मामु॒षसः᳚ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि᳚ पर्षन् ॥
▶ पदपाठः (Word-by-word)
आ॒शुम् । द॒धि॒॑क्राम् । तम् । ऊं॒ इति᳚ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।
उ॒च्छन्तीः᳚ । माम् । उ॒षसः᳚ । सू॒द॒य॒न्तु॒ । अति᳚ । विश्वा᳚नि । दुः॒॑इ॒तानि᳚ । प॒र्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशुं दधिक्रामिति षड्रुचं सप्तमं सूक्तम् । आदितः पञ्च त्रिष्टुभः षष्ठ्यनुष्टुप् । ऋषिर्वामदेवः । पूर्वसूक्ते हीत्युक्तत्वादेतदपि दाधिक्रम् । तथा चानुक्रान्तम् । आशुं षळन्त्यानुष्टुबिति । सूक्तविनियोगो लैङ्गिकः ॥

आशुं शीघ्रगामिनं तमु तमेव दधिक्रां देवं नु क्षिप्रं स्तवाम । उतापि च दिवः पृथिव्याश्च सकाशादस्य घसं चर्किराम । विक्षिपाम । उच्छन्तीस्तमो विवासयन्तीरुषसो मां प्रति सूदयन्तु । रक्षन्तु फलानि । विश्वानि सर्वाणि दुरितान्यतिपर्षन् । अतिपारयन्तु । अन्यदेवताकेषु मन्त्रेष्वन्यदेवतास्तुतिस्तासां निपातभाक्त्वान्न विरुध्यते ॥ १ ॥

4.39.2
म॒हश्च᳚र्क॒र्म्यर्व᳚तः क्रतु॒प्रा द᳚धि॒क्राव्ण᳚ः पुरु॒वार᳚स्य॒ वृष्ण᳚ः ।
यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु᳚रिम् ॥
▶ पदपाठः (Word-by-word)
म॒हः । च॒र्क॒र्मि॒ । अर्व᳚तः । क्र॒तु॒॑प्राः । द॒धि॒॑क्राव्णः᳚ । पु॒रु॒॑वार᳚स्य । वृष्णः᳚ ।
यम् । पू॒रु॑भ्यः᳚ । दी॒दि॒॑वांस᳚म् । न । अ॒ग्निम् । द॒दथुः᳚ । मि॒त्रा॒व॒रु॒णा॒ । ततु᳚रिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रतुप्राः कर्मणां पूरकोऽहं महो महतोऽर्वतोऽरणवतः पुरुवारस्य बहुभिर्वरणीयस्य वृष्णो वर्षकस्य दधिक्राव्णः स्तुतिं चर्कर्मि । अत्यर्थं करोमि । हे मित्रावरुना मित्रावरुणौ युवां ततुरिं तारकं यं दीदिवांसं नाग्निं दीप्यमानमग्निमिव स्थितं पुरुभ्यो मनुष्येभ्यस्तेषामुपकाराय ददथुः । धारयथः ॥ २ ॥

4.39.3 समानपद
यो अश्व᳚स्य दधि॒क्राव्णो॒ अका᳚री॒त्समि᳚द्धे अ॒ग्ना उ॒षसो॒ व्यु᳚ष्टौ ।
अना᳚गसं॒ तमदि᳚तिः कृणोतु॒ स मि॒त्रेण॒ वरु᳚णेना स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । अश्व᳚स्य । द॒धि॒॑क्राव्णः᳚ । अका᳚रीत् । सम्॑इ᳚द्धे । अ॒ग्नौ । उ॒षसः᳚ । वि॑उ᳚ष्टौ ।
अना᳚गसम् । तम् । अदि᳚तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण᳚ । वरु᳚णेन । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानोऽश्वस्याश्वसूपस्य व्याप्तस्य वा दधिक्राव्णः स्तुतिमुषसो व्युष्टौ प्रभाते सत्यग्नौ समिद्धे सत्यकारीत् । अकार्षीत् । मित्रेण वरुणेन चाहोरात्राभिमानिदेवाभ्यां सजोषाः समानप्रीतिरदितिरखण्डनीयो दधिक्रास्तम् यजमानमनागसं कृणोतु । करोतु ॥ ३ ॥

4.39.4
द॒धि॒क्राव्ण᳚ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम᳚ भ॒द्रम् ।
स्व॒स्तये॒ वरु᳚णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र᳚बाहुम् ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राव्णः᳚ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम᳚न्महि । म॒रुता᳚म् । नाम᳚ । भ॒द्रम् ।
स्व॒स्तये᳚ । वरु᳚णम् । मि॒त्रम् । अ॒ग्निम् । हवा᳚महे । इन्द्र᳚म् । वज्र᳚॑बाहुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इषोऽन्नसाधकस्योर्जो बलसाधकस्य महो महतो दधिक्राव्णो देवस्य मरुतां स्तोतॄणां स्वभूतं भद्रं कल्याणं नाम नामरूपमस्ति यत्तदमन्महि । स्तुमः । किञ्चात्र निपातभाजो वरुणादींश्च स्वस्तये क्षेमाय हवामहे ॥ ४ ॥

4.39.5 समानपद
इन्द्र᳚मि॒वेदु॒भये॒ वि ह्व᳚यन्त उ॒दीरा᳚णा य॒ज्ञमु᳚पप्र॒यन्त᳚ः ।
द॒धि॒क्रामु॒ सूद᳚नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒ अश्व᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म्॑इव । इत् । उ॒भये᳚ । वि । ह्व॒य॒न्ते॒ । उ॒त्॑ईरा᳚णाः । य॒ज्ञम् । उ॒प॒॑प्र॒यन्तः᳚ ।
द॒धि॒॑क्राम् । ऊं॒ इति᳚ । सूद᳚नम् । मर्त्या᳚य । द॒दथुः᳚ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रमिवैनं दधिक्रामुदीराणा युद्धायोद्योग्यं कुर्वन्तो यज्ञमुपप्रयन्तो यज्ञमुपक्रम्य प्रवर्तमानाश्चोभये वि ह्वयन्ते । आह्वयन्ति । यं मर्त्याय मर्त्यस्य सूदनं प्रेरकमश्वमश्वरूपं दधिक्रां देवं हे मित्रा वरुणा नोऽस्माकमर्थाय ददथुः । धारयथः । तं विह्वयन्त्ते । उभय इत्यत्रस्तोतृशंसितृभेदेन वोभयविधत्वमवगन्तव्यं ॥ ५ ॥

4.39.6
द॒धि॒क्राव्णो᳚ अकारिषं जि॒ष्णोरश्व᳚स्य वा॒जिनः᳚ ।
सु॒र॒भि नो॒ मुखा᳚ कर॒त्प्र ण॒ आयूं᳚षि तारिषत् ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राव्णः᳚ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व᳚स्य । वा॒जिनः᳚ ।
सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्र । नः॒ । आयूं᳚षि । ता॒रि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्राव्णो अकारिषमिति षष्ठी पवित्रेष्ट्या अनुवाक्या । सूत्रितं च । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ । इति । दधिद्रप्सभक्षणेऽप्येषा । दधिक्राव्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् भक्षयन्ति । आ. ६-१२ । इति सूत्रितत्वात् ॥

दधिक्राव्णो देवस्य स्तुतिमकारिषम् । करवाणि । जिष्णोर्जयशीलस्याश्वस्य व्यापकस्य वाजिनो वेगवतः । स देवो नोऽस्माकं मुखा मुखानि चक्षुरादीन्द्रियाणि सुरभि सुरभीणि करत् । करोतु । नोऽस्मभ्यमायूंषि प्रतारिषत् । प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ६ ॥