श्रवणम्

4.39.6
द॒धि॒क्राव्णो᳚ अकारिषं जि॒ष्णोरश्व᳚स्य वा॒जिनः᳚ ।
सु॒र॒भि नो॒ मुखा᳚ कर॒त्प्र ण॒ आयूं᳚षि तारिषत् ॥
▶ पदपाठः (Word-by-word)
द॒धि॒॑क्राव्णः᳚ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व᳚स्य । वा॒जिनः᳚ ।
सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्र । नः॒ । आयूं᳚षि । ता॒रि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दधिक्राव्णो अकारिषमिति षष्ठी पवित्रेष्ट्या अनुवाक्या । सूत्रितं च । दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः । आ. २-१२ । इति । दधिद्रप्सभक्षणेऽप्येषा । दधिक्राव्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् भक्षयन्ति । आ. ६-१२ । इति सूत्रितत्वात् ॥

दधिक्राव्णो देवस्य स्तुतिमकारिषम् । करवाणि । जिष्णोर्जयशीलस्याश्वस्य व्यापकस्य वाजिनो वेगवतः । स देवो नोऽस्माकं मुखा मुखानि चक्षुरादीन्द्रियाणि सुरभि सुरभीणि करत् । करोतु । नोऽस्मभ्यमायूंषि प्रतारिषत् । प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ६ ॥