श्रवणम्

4.39.1
आ॒शुं द᳚धि॒क्रां तमु॒ नु ष्ट᳚वाम दि॒वस्पृ᳚थि॒व्या उ॒त च᳚र्किराम ।
उ॒च्छन्ती॒र्मामु॒षसः᳚ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि᳚ पर्षन् ॥
▶ पदपाठः (Word-by-word)
आ॒शुम् । द॒धि॒॑क्राम् । तम् । ऊं॒ इति᳚ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।
उ॒च्छन्तीः᳚ । माम् । उ॒षसः᳚ । सू॒द॒य॒न्तु॒ । अति᳚ । विश्वा᳚नि । दुः॒॑इ॒तानि᳚ । प॒र्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशुं दधिक्रामिति षड्रुचं सप्तमं सूक्तम् । आदितः पञ्च त्रिष्टुभः षष्ठ्यनुष्टुप् । ऋषिर्वामदेवः । पूर्वसूक्ते हीत्युक्तत्वादेतदपि दाधिक्रम् । तथा चानुक्रान्तम् । आशुं षळन्त्यानुष्टुबिति । सूक्तविनियोगो लैङ्गिकः ॥

आशुं शीघ्रगामिनं तमु तमेव दधिक्रां देवं नु क्षिप्रं स्तवाम । उतापि च दिवः पृथिव्याश्च सकाशादस्य घसं चर्किराम । विक्षिपाम । उच्छन्तीस्तमो विवासयन्तीरुषसो मां प्रति सूदयन्तु । रक्षन्तु फलानि । विश्वानि सर्वाणि दुरितान्यतिपर्षन् । अतिपारयन्तु । अन्यदेवताकेषु मन्त्रेष्वन्यदेवतास्तुतिस्तासां निपातभाक्त्वान्न विरुध्यते ॥ १ ॥