चतुर्थं मण्डलम् - सूक्तम् 25

8 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.25 - सम्पूर्णम्

1 / 8
ऋक्: 4.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
4.25.1
को अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र᳚स्य स॒ख्यं जु᳚जोष ।
को वा᳚ म॒हे॑व᳚से॒ पार्या᳚य॒ समि᳚द्धे अ॒ग्नौ सु॒तसो᳚म ईट्टे ॥
▶ पदपाठः (Word-by-word)
कः । अ॒द्य । नर्यः᳚ । दे॒व॑का᳚मः । उ॒शन् । इन्द्र᳚स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
कः । वा॒ । म॒हे । अव᳚से । पार्या᳚य । सम्॑इ᳚द्धे । अ॒ग्नौ । सु॒त॑सो᳚मः । ई॒ट्टे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

को अद्येत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् । को अद्याष्टाविति । दशरात्रे चतुर्थेऽहनि माध्यन्दिने सवने स्तोमव्रुद्धौ मैत्रावरुणशस्त्र आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च । स्तोमे वर्धमाने को अद्य नर्यः ॥ आ. ७-१२ ॥ इति ॥

अद्यास्मिन्दिवसे नर्यो मनुष्यहितो देवकामो देवानिच्छन् उशन् कामयमानः को यजमान इन्द्रस्य सख्यं सखित्वं जुजोष । सेवते । किञ्च सुतसोमोऽभिशुतसोमः को वा यजमानोऽग्नौ समिद्धे प्रज्वलिते सति महे महते प्रवृद्धाय पार्याय पारमर्हतेऽवसे तर्पणायेट्टे । इन्द्रं स्तौति ॥ १ ॥

4.25.2
को ना᳚नाम॒ वच᳚सा सो॒म्याय᳚ मना॒युर्वा᳚ भवति॒ वस्त᳚ उ॒स्राः ।
क इन्द्र᳚स्य॒ युज्यं॒ कः स᳚खि॒त्वं को भ्रा॒त्रं व᳚ष्टि क॒वये॒ क ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
कः । न॒ना॒म॒ । वच᳚सा । सो॒म्याय᳚ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते᳚ । उ॒स्राः ।
कः । इन्द्र᳚स्य । युज्य᳚म् । कः । स॒खि॒॑त्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये᳚ । कः । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

को यजमानो वचसा वाग्रूपया स्तुत्या सोम्याय सोमार्हायेंद्राय ननाम । नमति । प्रह्वीभवति । को वेन्द्राय मनायुर्भवति । स्तुतिकामोऽस्ति । क उस्रा इन्द्रेण दत्ता गा वस्ते । आच्छादयति । धारयतीत्यर्थः । क इन्द्रस्य युज्यं साहाय्यं वष्ति । इच्छति । कः सखित्वं कः भ्रात्रं भ्रातृभावं वृष्टि । इच्छति । कवये क्रान्तदर्शिन इन्द्रायोती ऊतये तर्पणाय । को भवतीति शेषः ॥ २ ॥

4.25.3
को दे॒वाना॒मवो᳚ अ॒द्या वृ᳚णीते॒ क आ᳚दि॒त्या{4} अदि᳚तिं॒ ज्योति᳚रीट्टे ।
कस्या॒श्विना॒विन्द्रो᳚ अ॒ग्निः सु॒तस्यां॒शोः पि᳚बन्ति॒ मन॒सावि᳚वेनम् ॥
▶ पदपाठः (Word-by-word)
कः । दे॒वाना᳚म् । अवः᳚ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि᳚तिम् । ज्योतिः᳚ । ई॒ट्टे॒ ।
कस्य᳚ । अ॒श्विनौ᳚ । इन्द्रः᳚ । अ॒ग्निः । सु॒तस्य᳚ । अं॒शोः । पि॒ब॒न्ति॒ । मन᳚सा । अवि᳚॑वेनम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्दिने को यजमानो देवानां द्योतमानानामिन्द्रादीनामवो रक्षणं वृणीते । प्रार्थयते । क आदित्यान्देवानदितिं देवमातरं च ज्योतिरुदकं चेट्टे । याचते । अश्विनावश्वि देवाविन्द्रश्चाग्निश्च मनसा स्तुत्या प्रीताः सन्तोऽविवेनमविगतम् ामम् । यथाकाममित्यर्थः । कस्य यजमानस्य सम्बन्धिनं सुतस्याभिषुतस्यांशोः सोमस्य । सोममित्यर्थः । पिबन्ति । पानं कुर्वन्ति ॥ ३ ॥

4.25.4 समानपद
तस्मा᳚ अ॒ग्निर्भार᳚त॒ः शर्म᳚ यंस॒ज्ज्योक्प᳚श्या॒त्सूर्य᳚मु॒च्चर᳚न्तम् ।
य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत᳚माय नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । अ॒ग्निः । भार᳚तः । शर्म᳚ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् ।
यः । इन्द्रा᳚य । सु॒नवा᳚म । इति᳚ । आह᳚ । नरे᳚ । नर्या᳚य । नृ॑त᳚माय । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारतो हविषो भर्ताग्निः । प्राणो भूत्वा प्रजा धारयन् भारत इति वाजसनेयकम् । अग्निस्तस्मै यजमानाय शर्म सुखं यंसत् । यच्छेत् । किञ्च अयमग्निर्ज्योक् चिरकालमुच्चरन्तमुद्यन्तं सूर्यं पश्यात् । पश्येत् । यो यजमान इन्द्राय सुनवामेत्याह इन्द्रार्थं सोमाभिषवं कुर्यामिति ब्रवीति । कीदृशायेन्द्राय । नरे नेत्रे नर्याय नरहिताय नृणां नराणां नेतॄणां मध्ये नृतमाय नेतृतमाय ॥ ४ ॥

4.25.5
न तं जि᳚नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व᳚स्मा॒ अदि᳚ति॒ः शर्म᳚ यंसत् ।
प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु᳚प्रा॒वीः प्रि॒यो अ᳚स्य सो॒मी ॥
▶ पदपाठः (Word-by-word)
न । तम् । जि॒न॒न्ति॒ । ब॒हवः᳚ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि᳚तिः । शर्म᳚ । यं॒स॒त् ।
प्रि॒यः । सु॒॑कृत् । प्रि॒यः । इन्द्रे᳚ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒॑अ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥
▶ सायणभाष्यम् (Sayana Commentary)

दभ्रा अल्पा बहवो न बहवोऽपि शत्रुजनास्तं यजमानं न जिनन्ति । न हिंसन्तु । य इन्द्राय सुनवामेत्याह तमिति पूर्वेण सम्बन्धः । अदितिरिन्द्रमातास्मै यजमानायोरु विस्तीर्णं शर्म सुखं यंसत् । यच्छतु । किञ्च इन्द्र इन्द्राय सुकृत् शोभनयागादीनां कर्ता यजमानः प्रियो भवति । मनायुरिन्द्रविषयस्तुतिकामश्चास्येन्द्रस्य प्रियो भवति । सुप्रावीः सुष्थु प्राविता सुष्ठु प्रगच्छन्नुपगच्छन्वा यजमानोऽस्येन्द्रस्य प्रियो भवति । सोमी सोमवान्यजमानोऽस्येन्द्रस्य प्रियो भवति ॥ ५ ॥

4.25.6
सु॒प्रा॒व्य᳚ः प्राशु॒षाळे॒ष वी॒रः सुष्वे᳚ः प॒क्तिं कृ᳚णुते॒ केव॒लेन्द्र᳚ः ।
नासु᳚ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु᳚ष्प्रा॒व्यो᳚॑वह॒न्तेदवा᳚चः ॥
▶ पदपाठः (Word-by-word)
सु॒प्र॒॑अ॒व्यः᳚ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः᳚ । प॒क्तिम् । कृ॒णु॒ते॒ । केव᳚ला । इन्द्रः᳚ ।
न । असु᳚स्वेः । आ॒पिः । न । सखा᳚ । न । जा॒मिः । दुः॒प्र॒॑अ॒व्यः᳚ । अ॒व॒॑ह॒न्ता । इत् । अवा᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राशुषाट् शत्रूणां प्रकर्षेण शीघ्रमभिभवता वीरो विक्रान्त एष इन्द्रः सुप्राव्यः सुष्ठूपगच्छतो हविर्भिः सुष्ठु प्रतर्पयितुर्वा सुष्वेः सुन्वतो यजमानस्य सम्बन्धिनीं केवला केवलामसाधारणां पक्तिं कृणुते । आत्मनः कुरुते । किञ्चेन्द्रोऽसुष्वेरसुन्वतो यजमानस्यापिर्व्याप्तो न भवति । इन्द्रोऽयजमानस्य सखा न भवति । जामिर्बन्धुश्च न भवति । अपि च दुष्ट्राव्यो दुरुपगमनस्या वाचः स्तुतिरहितस्य पुरुशस्यावहन्तेत् हिंसितैव भवति ॥ ६ ॥

4.25.7
न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रो॑सु᳚न्वता सुत॒पाः सं गृ᳚णीते ।
आस्य॒ वेदः᳚ खि॒दति॒ हन्ति᳚ न॒ग्नं वि सुष्व᳚ये प॒क्तये॒ केव᳚लो भूत् ॥
▶ पदपाठः (Word-by-word)
न । रे॒वता᳚ । प॒णिना᳚ । स॒ख्यम् । इन्द्रः᳚ । असु᳚न्वता । सु॒त॒॑पाः । सम् । गृ॒णी॒ते॒ ।
आ । अ॒स्य॒ । वेदः᳚ । खि॒दति᳚ । हन्ति᳚ । न॒ग्नम् । वि । सुस्व᳚ये । प॒क्तये᳚ । केव᳚लः । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतपा अभिषुतं सोमं पिबन्निन्द्रो रेवता धनवता पणिना वणिजा लुब्धेनासुन्वता सोमाभिषवमकुर्वतायजमानेन सह सख्यं सखित्वं न सं गृणीते । न संस्तौति । नानुमन्यत इत्यर्थः । किञ्च अस्यायजमानस्य नग्नं निरर्थकं वेदो धनं ज्ञानं वा आ खिदति । उद्धरति । हन्ति । हिनस्ति च । अपि च सुष्वये सोमं सुन्वते पक्तये हवींषि पचते यजमानाय केवलोऽसाधारणः सन् विभूत् । विभवति ॥ ७ ॥

4.25.8 समानपद
इन्द्रं॒ परे॑व᳚रे मध्य॒मास॒ इन्द्रं॒ यान्तो॑व᳚सितास॒ इन्द्र᳚म् ।
इन्द्रं᳚ क्षि॒यन्त᳚ उ॒त युध्य᳚माना॒ इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । परे᳚ । अव᳚रे । म॒ध्य॒मासः᳚ । इन्द्र᳚म् । यान्तः᳚ । अव᳚॑सितासः । इन्द्र᳚म् ।
इन्द्र᳚म् । क्षि॒यन्तः᳚ । उ॒त । युध्य᳚मानाः । इन्द्र᳚म् । नरः᳚ । वा॒ज॒यन्तः᳚ । ह॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर उत्कृश्टा अवरे निकृष्ताश्च जना इन्द्रं हवन्ते । आह्वयन्ति । मध्यमासो मध्यमाश्चेन्द्रमेव हवन्ते । यान्तः कार्यसिद्ध्यर्थं गच्छन्तो जना इन्द्रमेवाह्वयन्ति । अवसितासो निविष्टाश्चेन्द्रमेवाह्वयन्ति । क्श्झियन्तो ग्रुहे निवसन्तो जना इन्द्रमेव हवन्ते । वाजयन्तो वाजमन्नमिच्छन्तो नरो नेतारो मनुष्या इन्द्रमेव हवन्ते ॥ ८ ॥