श्रवणम्

4.25.1
को अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र᳚स्य स॒ख्यं जु᳚जोष ।
को वा᳚ म॒हे॑व᳚से॒ पार्या᳚य॒ समि᳚द्धे अ॒ग्नौ सु॒तसो᳚म ईट्टे ॥
▶ पदपाठः (Word-by-word)
कः । अ॒द्य । नर्यः᳚ । दे॒व॑का᳚मः । उ॒शन् । इन्द्र᳚स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
कः । वा॒ । म॒हे । अव᳚से । पार्या᳚य । सम्॑इ᳚द्धे । अ॒ग्नौ । सु॒त॑सो᳚मः । ई॒ट्टे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

को अद्येत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् । को अद्याष्टाविति । दशरात्रे चतुर्थेऽहनि माध्यन्दिने सवने स्तोमव्रुद्धौ मैत्रावरुणशस्त्र आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च । स्तोमे वर्धमाने को अद्य नर्यः ॥ आ. ७-१२ ॥ इति ॥

अद्यास्मिन्दिवसे नर्यो मनुष्यहितो देवकामो देवानिच्छन् उशन् कामयमानः को यजमान इन्द्रस्य सख्यं सखित्वं जुजोष । सेवते । किञ्च सुतसोमोऽभिशुतसोमः को वा यजमानोऽग्नौ समिद्धे प्रज्वलिते सति महे महते प्रवृद्धाय पार्याय पारमर्हतेऽवसे तर्पणायेट्टे । इन्द्रं स्तौति ॥ १ ॥