चतुर्थं मण्डलम् - सूक्तम् 53

7 ऋचः

ऋषिः: वामदेवो गौतमः देवता: सविता छन्दः: जगती

सूक्तम् 4.53 - सम्पूर्णम्

1 / 7
ऋक्: 4.53.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.53.1
तद्दे॒वस्य᳚ सवि॒तुर्वार्यं᳚ म॒हद्वृ᳚णी॒महे॒ असु᳚रस्य॒ प्रचे᳚तसः ।
छ॒र्दिर्येन᳚ दा॒शुषे॒ यच्छ᳚ति॒ त्मना॒ तन्नो᳚ म॒हा{4} उद᳚यान्दे॒वो अ॒क्तुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । दे॒वस्य᳚ । स॒वि॒तुः । वार्य᳚म् । म॒हत् । वृ॒णी॒महे᳚ । असु᳚रस्य । प्र॑चे᳚तसः ।
छ॒र्दिः । येन᳚ । दा॒शुषे᳚ । यच्छ᳚ति । त्मना᳚ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्देवस्येति सप्तर्चमष्टमं सूक्तं वामदेवस्यार्षं जागतं सावित्रम् । तथा चानुक्रम्यते । तद्देवस्य सावित्रं तु जागतमिति । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रितम् । तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रः । आ. ७-७ । इति ॥

सवितुः प्रेरकस्य देवस्य वार्यं वरणीयं महत्पूज्यं तद्धनं वृणीमहे । प्रार्थयामः । असुरस्य । असुर्बलम् । तद्वतः प्रचेतसः प्रकृष्टमतेः । देवस्येति सम्बन्धः । येन धनेन युक्तः सन् छर्दिः । गृहनामैतत् । गृहोपलक्शितं धनजातं दाशुषे हविर्दत्तवते यजमानाय त्मनात्मनैव यच्छति तच्छर्दिर्महान्देवः सविताक्तुभी रात्रिभिः । एतदह्नामप्युपलक्शणम् । सर्वैर्दिवसैः सर्वेषु दिवसेसु नोऽस्माकमुदयान् । उद्यच्छतु । करोत्वित्यर्थः । यद्वा । छर्दिरिति तेजोनाम । तत्तेज उद्यच्छत्विति ॥ १ ॥

4.53.2
दि॒वो ध॒र्ता भुव᳚नस्य प्र॒जाप᳚तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति᳚ मुञ्चते क॒विः ।
वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ॥
▶ पदपाठः (Word-by-word)
दि॒वः । ध॒र्ता । भुव᳚नस्य । प्र॒जा॑प᳚तिः । पि॒शङ्ग᳚म् । द्रा॒पिम् । प्रति᳚ । मु॒ञ्च॒ते॒ । क॒विः ।
वि॒॑च॒क्ष॒णः । प्र॒थय᳚न् । आ॒॑पृ॒णन् । उ॒रु । अजी᳚जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चिवो द्युलोकस्य धर्ता धारकः । न केवलं दिव एव अपि तु भुवनस्य कृत्स्नस्यापि लोकस्य धर्ता प्रजापतिः प्रजानां प्रकाशव्रुष्ट्यादिना पलयिता कविः प्राज्ञोदेवः पिशङ्गं द्रापिं हिरण्मयं कवचं प्रति मुञ्चते । आच्छादयति प्रत्युदयम् । विचक्शणो विविधं द्रष्टा स एव देवः प्रथयन् प्रख्यापयन् तेज आपृणन्नापूरयन् परित उरु प्रभूतं सुम्नं सुमुक्थ्यं स्तुत्यमजीजनत् । उत्पादयति ॥ २ ॥

4.53.3
आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि᳚वा॒ श्लोकं᳚ दे॒वः कृ᳚णुते॒ स्वाय॒ धर्म᳚णे ।
प्र बा॒हू अ᳚स्राक्सवि॒ता सवी᳚मनि निवे॒शय᳚न्प्रसु॒वन्न॒क्तुभि॒र्जग᳚त् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒प्राः॒ । रजां᳚सि । दि॒व्यानि᳚ । पार्थि᳚वा । श्लोक᳚म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय᳚ । धर्म᳚णे ।
प्र । बा॒हू इति᳚ । अ॒स्रा॒क् । स॒वि॒ता । सवी᳚मनि । नि॒॑वे॒शय᳚न् । प्र॒॑सु॒वन् । अ॒क्तु॑भिः᳚ । जग᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं देवः सविता दिव्यानि द्युसम्बन्धीनि पार्थिवा पार्थिवानि रजांसि लोकान् । तिस्रः खलु द्यावः पृथिव्यश्च । तिस्रो भूमिर्धारयन् त्रीरुत द्यून् । ऋग्वे. २-२७-८ । इति हि श्रुतम् । आप्राः । आपूरयति स्वाभिर्भाभिर्देवः । स्वायधर्मणे स्वकीयाय धारणाय श्लोकं प्रशस्तिं कृणुते । करोति । सविता सवीमनि प्रसवेऽनुज्ञायां निमित्तायां बाहू स्वीयौ प्रास्राक् । प्रसृजति । प्रसारयतीत्यर्थः । किं कुर्वन् । अक्तुभिः कान्तिभिर्जगन्निवेशयन् स्वस्वकार्ये स्थापनयन् प्रसुवन् प्रेरयन् । अथवा अक्तुभिरिति रात्रिनाम । तदुपलक्षितैः सर्वैर्वासरैः सर्वेष्वपि दिनेष्वेवं करोतीत्यर्थः ॥ ३ ॥

4.53.4
अदा᳚भ्यो॒ भुव᳚नानि प्र॒चाक᳚शद्व्र॒तानि᳚ दे॒वः स᳚वि॒ताभि र᳚क्षते ।
प्रास्रा᳚ग्बा॒हू भुव᳚नस्य प्र॒जाभ्यो᳚ धृ॒तव्र᳚तो म॒हो अज्म᳚स्य राजति ॥
▶ पदपाठः (Word-by-word)
अदा᳚भ्यः । भुव᳚नानि । प्र॒॑चाक᳚शत् । व्र॒तानि᳚ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ ।
प्र । अ॒स्रा॒क् । बा॒हू इति᳚ । भुव᳚नस्य । प्र॒॑जाभ्यः᳚ । धृ॒त॑व्र᳚तः । म॒हः । अज्म᳚स्य । रा॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता देवोऽदाभ्योऽन्यैरहिंसितः सन् भुवनानि प्रचाकशत् दीपयन् व्रतानि कर्माणि प्राणिनामभि रक्षते । भुवनस्य लोकस्य प्रजाभ्यस्तत्रत्याभ्यो बाहू स्वीयौ प्रास्राक् । प्रसारयति । स्वस्वकर्मणेऽनुजानातीत्यर्थः । सर्वव्यापाराणां सूर्याधीनत्वात् । सविता वै प्रसवानामीशे । ऐ. ब्रा. १-१६ । इति हि श्रुतिः ॥ धृतव्रतो धृतकर्मा स तथा कुर्वन् महो महतोऽज्मस्य जगतो राजति । ईश्वरो भवति ॥ ४ ॥

4.53.5
त्रिर॒न्तरि᳚क्षं सवि॒ता म᳚हित्व॒ना त्री रजां᳚सि परि॒भुस्त्रीणि᳚ रोच॒ना ।
ति॒स्रो दिवः᳚ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
त्रिः । अ॒न्तरि᳚क्षम् । स॒वि॒ता । म॒हि॒॑त्व॒ना । त्री । रजां᳚सि । प॒रि॒॑भूः । त्रीणि᳚ । रो॒च॒ना ।
ति॒स्रः । दिवः᳚ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒॑भिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सविता त्रिस्त्रिभेदमन्तरिक्षम् । अन्तरा क्षान्तं भवति जगदित्यन्तरिक्षं परिभूः परिभविता सन् महित्वना महित्वेनेन्वति । व्याप्नोति । वायुविद्युद्वरुणाख्यास्त्रयो लोका अन्तरिक्षभेदाः स वायुलोकं स वरुणलोकमित्यादिश्रुतेः । कौ. उ. १-३ । त्री रजांसि रञ्जनात्मकानि त्रीणि क्षित्यन्तरिक्शद्युलक्षणान् त्रीन् लोकानिन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्त इह तु समान्याका रेणेत्यपुनरुक्तिः । त्रीणि रोचना रोचनानि रोचमानानग्निवाय्वादित्यानुक्तस्थानत्रयस्वामित्वेनेन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः । अथ द्युपृथिव्योरवान्तरभेद उच्यते । तिस्रो दिव इन्द्रप्रजापतिसत्याख्यान् त्रीन् लोकानिन्वति । तथा तिस्रः पृथिवीरन्विति । क्शित्यवान्तरभेदान् लोकानिन्वति । एवं सर्वत्रव्याप्तो देवस्त्रिभिर्व्रतैः कर्मभिरुश्णवर्षहिमाख्यैर्नोऽस्मान् त्मनात्मनैव स्वीयानुग्रहबुद्ध्यैवाभि रक्षदि । अभिरक्षतु । परिपालयतु ॥ ५ ॥

4.53.6
बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश᳚नो॒ जग᳚तः स्था॒तुरु॒भय᳚स्य॒ यो व॒शी ।
स नो᳚ दे॒वः स᳚वि॒ता शर्म᳚ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह᳚सः ॥
▶ पदपाठः (Word-by-word)
बृ॒हत्॑सु᳚म्नः । प्र॒॑स॒वि॒ता । नि॒॑वेश᳚नः । जग᳚तः । स्था॒तुः । उ॒भय᳚स्य । यः । व॒शी ।
सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म᳚ । य॒च्छ॒तु॒ । अ॒स्मे इति᳚ । क्षया᳚य । त्रि॒॑वरू᳚थम् । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो बृहत्सुम्नः प्रभूतधनः प्रभूतसुखो वा प्रसविता प्रकर्षेणानुज्ञाता कर्मणां निवेशनः सर्वैर्गन्तव्यः । जगतो जङ्गमस्य स्थातुः स्थावरस्योभयस्य यो वशी स महान् सविता देवो नोऽस्मभ्यं शर्म सुखं यच्छतु । कीद्रुशं शर्म । त्रिवरूथं त्रीणि वरूथानि गृहाणि स्थानानि क्षित्यादीनि यस्य तत्तादृशम् । अस्मे अस्माकमंहसः पापस्य क्षयाय भवत्विति शेशः ॥ ६ ॥

4.53.7 समानपद
आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध᳚तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु᳚प्र॒जामिष᳚म् ।
स नः᳚ क्ष॒पाभि॒रह᳚भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग॒न् । दे॒वः । ऋ॒तु॑भिः᳚ । वर्ध᳚तु । क्षय᳚म् । दधा᳚तु । नः॒ । स॒वि॒ता । सु॒॑प्र॒जाम् । इष᳚म् ।
सः । नः॒ । क्ष॒पाभिः᳚ । अह᳚॑भिः । च॒ । जि॒न्व॒तु॒ । प्र॒जा॑व᳚न्तम् । र॒यिम् । अ॒स्मे इति᳚ । सम् । इ॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

राजक्रय आगन्देव इत्येषानुवचनीया । सूत्रितं च । आगन्देव रुतुभिर्वर्धयतु क्षयमित्यर्धर्च आरमेत् । आ. ४-४ । इति ।

देवः सविता ऋतुभिः सहागन् । आगच्छतु । गमेर्लङि रूपम् । किञ्च क्शयं गृहं वर्धतु । वर्धयतु । नोऽस्माकं सुप्रजां शोभनपुत्राद्युपेतमिशमन्नं दधातु । ददातु । स एव नोऽस्मान् क्शपाभी रात्रिभिरहभिश्च । सर्वेषु दिनेष्वित्यर्थः । जिन्वतु । प्रीणयतु धनादिभिः । अस्मे अस्मासु प्रजावन्तं रयिं समिन्वतु । व्याप्नोतु । प्रापयत्वित्यर्थः ॥ ७ ॥