चतुर्थं मण्डलम् - सूक्तम् 35

9 ऋचः

ऋषिः: वामदेवो गौतमः देवता: ऋभवः छन्दः: त्रिष्टुप्

सूक्तम् 4.35 - सम्पूर्णम्

1 / 9
ऋक्: 4.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
4.35.1 समानपद
इ॒होप᳚ यात शवसो नपात॒ः सौध᳚न्वना ऋभवो॒ माप᳚ भूत ।
अ॒स्मिन्हि व॒ः सव᳚ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु᳚ वो॒ मदा᳚सः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । उप᳚ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध᳚न्वनाः । ऋ॒भ॒वः॒ । मा । अप᳚ । भू॒त॒ ।
अ॒स्मिन् । हि । वः॒ । सव᳚ने । र॒त्न॒॑धेय᳚म् । गम᳚न्तु । इन्द्र᳚म् । अनु᳚ । वः॒ । मदा᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहोप यातेति नवर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । इहोप नवेत्यनुक्रमणिका ॥ तृतीयसवने मैत्रावरुणस्येदमुन्नीय मानसूक्तम् । सूत्रितं च । आ त्वा वहन्त्वसावि देवमिहोप यातेत्यनुसवनम् । आ. ५-५- । इति ॥

हे शवसो नपातो बलस्य पुत्रास्तस्य न पातयितारो वा हे सौधन्वनाः सुधन्वनः पुत्रा हे ऋभवो यूयमिहोप यात । अस्मिन् तृतीये सवन उपगच्छत । माप भूत । अपगता न भवत । अस्मिन् सवने रत्नधेयं रमणीयधनस्य दातारमिन्द्रमनु अनुसृत्य वो यष्मान्मदासो मदकराः सोमा गमन्तु । गच्छन्तु अन्विति क्रियया वा सम्बध्यते । इन्द्रं युष्मांश्चान्वागच्छन्त्वित्यर्थः । हि पूरणः ॥ १ ॥

4.35.2
आग᳚न्नृभू॒णामि॒ह र᳚त्न॒धेय॒मभू॒त्सोम᳚स्य॒ सुषु᳚तस्य पी॒तिः ।
सु॒कृ॒त्यया॒ यत्स्व᳚प॒स्यया᳚ च{4}॒ एकं᳚ विच॒क्र च᳚म॒सं च᳚तु॒र्धा ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒॑धेय᳚म् । अभू᳚त् । सोम᳚स्य । सु॑सु᳚तस्य । पी॒तिः ।
सु॒॑कृ॒त्यया᳚ । यत् । सु॒॑अ॒प॒स्यया᳚ । च॒ । एक᳚म् । वि॒॑च॒क्र । च॒म॒सम् । च॒तुः॒॑धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभूणां युष्माकमिह तृतीयसवने रत्नधेयं रत्नदानमागन् । आगच्छतु मह्यम् । यद्वा । युष्माकमेव सोमाख्यं रत्नमागन् । यस्मात्सोमस्य सुषुतस्य पीतिः पानमभूत् । प्रजापतिना लब्धमित्यर्थः । तदपि कुत इति चेत् । उच्यते । यद्यस्मात्सुकृत्यया शोभनहस्तव्यापारेण स्वपस्यया शोभनरथनिर्माणादिकर्मेच्छया चैकं सन्तं चमसं चतुर्धा विचक्र । कृतवन्तः ॥ २ ॥

4.35.3 समानपद
व्य᳚कृणोत चम॒सं च᳚तु॒र्धा सखे॒ वि शि॒क्षेत्य᳚ब्रवीत ।
अथै᳚त वाजा अ॒मृत᳚स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ॥
▶ पदपाठः (Word-by-word)
वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒॑धा । सखे᳚ । वि । शि॒क्ष॒ । इति᳚ । अ॒ब्र॒वी॒त॒ ।
अथ᳚ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत᳚स्य । पन्था᳚म् । ग॒णम् । दे॒वाना᳚म् । ऋ॒भ॒वः॒ । सु॒॑ह॒स्ताः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो यूयं चमसं चतुर्धा व्यकृणोत । व्यकुरुत । कृत्वा च हे सखे हे सखिभूताग्ने वि शिक्षानुगृहाण सोऽग्निर्युष्मानवादीत् खलु । किमिति । हे वाजा ऋभवः सुहस्ताः कुशलहस्ता यूयममृतस्यामरणधर्मकस्य स्वर्गस्य पन्थां पन्थानमैत । गच्छत किं तदमृतमिति । देवानामिन्द्रादीनां गनं सङ्घातमैत ॥ ३ ॥

4.35.4
कि॒म्मयः᳚ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र ।
अथा᳚ सुनुध्वं॒ सव᳚नं॒ मदा᳚य पा॒त ऋ᳚भवो॒ मधु᳚नः सो॒म्यस्य᳚ ॥
▶ पदपाठः (Word-by-word)
कि॒म्॑मयः᳚ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये᳚न । च॒तुरः᳚ । वि॒॑च॒क्र ।
अथ᳚ । सु॒नु॒ध्व॒म् । सव᳚नम् । मदा᳚य । पा॒त । ऋ॒भ॒वः॒ । मधु᳚नः । सो॒म्यस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

किम्मयः स्वित् किमात्मक एष चमस आस । स्वित् प्रश्ने । यं चमसमेकं सन्तं काव्येन कवीनां मेधाविनां सम्बन्धिना कर्मणा कौशलेन चतुरो विचक्र । कृतवन्तः । अथाधुना सवनम् । सूयत इति सवनः सोमः । तं मदाय हर्षाय सुनुध्वं हे ऋत्विजः । हे ऋभवो यूयं च सोमस्य सोमसम्बन्धिनं मधुनो मधुरं रसं पात । पिबत ॥ ४ ॥

4.35.5
शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् ।
शच्या॒ हरी॒ धनु᳚तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ॥
▶ पदपाठः (Word-by-word)
शच्या᳚ । अ॒क॒र्त॒ । पि॒तरा᳚ । युवा᳚ना । शच्या᳚ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒॑पान᳚म् ।
शच्या᳚ । हरी॒ इति᳚ । धनु᳚॑तरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒॑वाहौ᳚ । ऋ॒भ॒वः॒ । वा॒ज॒॑र॒त्नाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजरत्ना रमणीयसोमान्ना हे ऋभवो यूयं शच्या कर्मणा पितरा मातापितरौ युवाना युवानावकर्त । अकुरुत । तथा शच्या चमसं देवपानं देवपानार्हमक्रत । चतुर्धाकुरुतेत्यर्थः । शच्या हरी अतष्त । तक्षणेन सम्पादितवन्तः । कीदृशौ हरी । धनुतरौ शीघ्रं गन्तृतराविन्द्रवाहाविन्द्रवोढारौ ॥ ५ ॥

4.35.6
यो वः᳚ सु॒नोत्य᳚भिपि॒त्वे अह्नां᳚ ती॒व्रं वा᳚जास॒ः सव᳚नं॒ मदा᳚य ।
तस्मै᳚ र॒यिमृ᳚भव॒ः सर्व᳚वीर॒मा त᳚क्षत वृषणो मन्दसा॒नाः ॥
▶ पदपाठः (Word-by-word)
यः । वः॒ । सु॒नोति᳚ । अ॒भि॒॑पि॒त्वे । अह्ना᳚म् । ती॒व्रम् । वा॒जा॒सः॒ । सव᳚नम् । मदा᳚य ।
तस्मै᳚ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व᳚॑वीरम् । आ । त॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो वाजसोऽन्नवन्तो वो युश्मभ्यं यो यजमानोऽह्नामभिपित्वेऽभिपतने । तृतीयसवन इत्यर्थः । तस्मिन् तीव्रं रसवत्तरं सवनम् । सूयत इति सवनः सोमः । तं मदाय सुनोति तस्मै सर्ववीरं बहुपुत्रोपेतं रयिं धनं हे वृशणः फलवर्षितारो मन्दसाना मोदमानाः सन्त आ तक्षत । सम्पादयतेत्यर्थः ॥ ६ ॥

4.35.7
प्रा॒तः सु॒तम᳚पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव᳚नं॒ केव᳚लं ते ।
समृ॒भुभि᳚ः पिबस्व रत्न॒धेभि॒ः सखी{4}॒र्या{4} इ᳚न्द्र चकृ॒षे सु᳚कृ॒त्या ॥
▶ पदपाठः (Word-by-word)
प्रा॒तरिति᳚ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒॑अ॒श्व॒ । माध्य᳚न्दिनम् । सव᳚नम् । केव᳚लम् । ते॒ ।
सम् । ऋ॒भु॑भिः᳚ । पि॒ब॒स्व॒ । र॒त्न॒॑धेभिः᳚ । सखी᳚न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒॑कृ॒त्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हर्यश्व हरितवर्णाश्वोपेतेन्द्र प्रातः प्रातः सवने सुतमभिषुतं सोममपिबः । पिबस्व । माध्यन्दिनं सवनं केवलं ते । परं तवैव नान्येषाम् । सवनद्वयस्य पृथगभिधानात्तृतीयसवनं परिशिष्यते । तृतीयसवने रत्नधेभी रमणीयदानैऋभुभिः सं पिबस्व । हे इन्द्र यानृभून् सुकृत्या शोभनकर्मणा सखीन् च कृषे । अकरोः ॥ ७ ॥

4.35.8
ये दे॒वासो॒ अभ᳚वता सुकृ॒त्या श्ये॒ना इ॒वेदधि᳚ दि॒वि नि᳚षे॒द ।
ते रत्नं᳚ धात शवसो नपात॒ः सौध᳚न्वना॒ अभ᳚वता॒मृता᳚सः ॥
▶ पदपाठः (Word-by-word)
ये । दे॒वासः᳚ । अभ᳚वत । सु॒॑कृ॒त्या । श्ये॒नाः॑इ᳚व । इत् । अधि᳚ । दि॒वि । नि॒॑से॒द ।
ते । रत्न᳚म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध᳚न्वनाः । अभ᳚वत । अ॒मृता᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो ये यूयं सुकृत्या शोभनकर्मणा देवासो देवा अभवत । अभूत । श्येना इवेत् शंसनीयगतयो गृध्रविशेषा इव दिवि द्युलोकेऽधि निषेद अधिनिषण्णाः हे शवसो नपातो बलवन्तस्ते यूयं रत्नं धनं धात । प्रयच्छत । हे सौधन्वना अमृतासोऽमृता देवा अभवत ॥ ८ ॥

4.35.9
यत्तृ॒तीयं॒ सव᳚नं रत्न॒धेय॒मकृ᳚णुध्वं स्वप॒स्या सु᳚हस्ताः ।
तदृ᳚भव॒ः परि᳚षिक्तं व ए॒तत्सं मदे᳚भिरिन्द्रि॒येभि᳚ः पिबध्वम् ॥
▶ पदपाठः (Word-by-word)
यत् । तृ॒तीय᳚म् । सव᳚नम् । र॒त्न॒॑धेय᳚म् । अकृ᳚णुध्वम् । सु॒॑अ॒प॒स्या । सु॒॑ह॒स्ताः॒ ।
तत् । ऋ॒भ॒वः॒ । परि᳚॑सिक्तम् । वः॒ । ए॒तत् । सम् । मदे᳚भिः । इ॒न्द्रि॒येभिः᳚ । पि॒ब॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुहस्ताः शोभनहस्ता ऋभवो रत्नधेयं रमणीयसोमदानवद्यत्तृतीयं सवनमकृणुध्वम् । प्रसाधितवन्तः । स्वपस्या शोभनकर्मेच्छया तदेतत्सवनं सवनगतं सोमद्रव्यं परिषिक्तं परिषेचनवद्वो युष्माकं सम्बन्धिभिर्मदेभिर्माद्यद्भिरिन्द्रियेभिरिन्द्रियैः सं पिबध्वम् । यद्यपि वदनमेव पानसाधनं तथापि चक्षुः श्रोत्रादीनामपि दर्शनश्रवणादिना तृप्तिसद्भावात्पातृत्वमुपचर्यते ॥ ९ ॥