श्रवणम्

4.35.6
यो वः᳚ सु॒नोत्य᳚भिपि॒त्वे अह्नां᳚ ती॒व्रं वा᳚जास॒ः सव᳚नं॒ मदा᳚य ।
तस्मै᳚ र॒यिमृ᳚भव॒ः सर्व᳚वीर॒मा त᳚क्षत वृषणो मन्दसा॒नाः ॥
▶ पदपाठः (Word-by-word)
यः । वः॒ । सु॒नोति᳚ । अ॒भि॒॑पि॒त्वे । अह्ना᳚म् । ती॒व्रम् । वा॒जा॒सः॒ । सव᳚नम् । मदा᳚य ।
तस्मै᳚ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व᳚॑वीरम् । आ । त॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभवो वाजसोऽन्नवन्तो वो युश्मभ्यं यो यजमानोऽह्नामभिपित्वेऽभिपतने । तृतीयसवन इत्यर्थः । तस्मिन् तीव्रं रसवत्तरं सवनम् । सूयत इति सवनः सोमः । तं मदाय सुनोति तस्मै सर्ववीरं बहुपुत्रोपेतं रयिं धनं हे वृशणः फलवर्षितारो मन्दसाना मोदमानाः सन्त आ तक्षत । सम्पादयतेत्यर्थः ॥ ६ ॥