श्रवणम्

4.35.1 समानपद
इ॒होप᳚ यात शवसो नपात॒ः सौध᳚न्वना ऋभवो॒ माप᳚ भूत ।
अ॒स्मिन्हि व॒ः सव᳚ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु᳚ वो॒ मदा᳚सः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । उप᳚ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध᳚न्वनाः । ऋ॒भ॒वः॒ । मा । अप᳚ । भू॒त॒ ।
अ॒स्मिन् । हि । वः॒ । सव᳚ने । र॒त्न॒॑धेय᳚म् । गम᳚न्तु । इन्द्र᳚म् । अनु᳚ । वः॒ । मदा᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इहोप यातेति नवर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । इहोप नवेत्यनुक्रमणिका ॥ तृतीयसवने मैत्रावरुणस्येदमुन्नीय मानसूक्तम् । सूत्रितं च । आ त्वा वहन्त्वसावि देवमिहोप यातेत्यनुसवनम् । आ. ५-५- । इति ॥

हे शवसो नपातो बलस्य पुत्रास्तस्य न पातयितारो वा हे सौधन्वनाः सुधन्वनः पुत्रा हे ऋभवो यूयमिहोप यात । अस्मिन् तृतीये सवन उपगच्छत । माप भूत । अपगता न भवत । अस्मिन् सवने रत्नधेयं रमणीयधनस्य दातारमिन्द्रमनु अनुसृत्य वो यष्मान्मदासो मदकराः सोमा गमन्तु । गच्छन्तु अन्विति क्रियया वा सम्बध्यते । इन्द्रं युष्मांश्चान्वागच्छन्त्वित्यर्थः । हि पूरणः ॥ १ ॥