चतुर्थं मण्डलम् - सूक्तम् 2

20 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 4.2 - सम्पूर्णम्

1 / 20
ऋक्: 4.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (20)
4.2.1 समानपद
यो मर्त्ये᳚ष्व॒मृत᳚ ऋ॒तावा᳚ दे॒वो दे॒वेष्व᳚र॒तिर्नि॒धायि᳚ ।
होता॒ यजि᳚ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु᳚ष ईर॒यध्यै᳚ ॥
▶ पदपाठः (Word-by-word)
यः । मर्त्ये᳚षु । अ॒मृतः᳚ । ऋ॒त॑वा᳚ । दे॒वः । दे॒वेषु᳚ । अ॒र॒तिः । नि॒॑धायि᳚ ।
होता᳚ । यजि᳚ष्ठः । म॒ह्ना । शु॒चध्यै᳚ । ह॒व्यैः । अ॒ग्निः । मनु᳚षः । ई॒र॒यध्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो मर्त्येष्विति विंशत्यृचं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । यो मर्त्येष्वित्यनुक्रमणिका । अस्य सूक्तस्य प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्त एव विनियोग उक्तः ॥

अमृतो मरणधर्मरहितो योऽग्निर्मर्त्येषु मनुष्येष्वृतावा सत्यवान्निधायि निहितः । यद्वा । वर्त्येशु मनुष्यसम्बन्धिषु वागादीन्द्रियेशु निहितः । अग्निर्वाग्भूत्वा मुखं प्रविशदिति श्रुतेः । देवो देवनशीलो योऽग्निरिन्द्रादिषु देवेष्वरतिरभिगन्ता शत्रूणाम् । यद्वा । देवलोके गन्ता । निघायि निहितः । स च होता देवानामाह्वाता यजिष्ठो यष्टृतमोऽग्निर्मह्ना स्वकीयेन महता तेजसा श्चध्यै दीपितुमुत्तरवेद्यां निहितः । किञ्च हव्यैर्हवनीयैराज्यपुरोडाशादिभिर्हविर्भिहेतुभिर्मनुशो मनुष्यस्य यजमानस्येरयध्यै स्वर्गं प्रति प्रेरनाय निहितः । अरति । ऋ गतौ । वहिवस्यर्तिभ्यश्चिदित्यतिप्रत्ययः । चित्त्वादन्तोदात्तः । निधायि । दधातेः कर्मणि लुङि रूपम् । परादिश्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । शुचध्यै । शुइच दीप्तौ । तुमर्थे कध्यैप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः । ईरयध्यै । ईरयतेस्तुमर्थे शध्यैप्रत्ययः । शित्त्वेन सार्वधातुकत्वाण्णिलोपाभावः ॥ १ ॥

4.2.2
इ॒ह त्वं सू᳚नो सहसो नो अ॒द्य जा॒तो जा॒ता{4} उ॒भया{4}᳚ अ॒न्तर᳚ग्ने ।
दू॒त ई᳚यसे युयुजा॒न ऋ᳚ष्व ऋजुमु॒ष्कान्वृष᳚णः शु॒क्रा{4}श्च᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्वम् । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया᳚न् । अ॒न्तः । अ॒ग्ने॒ ।
दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒॑मु॒ष्कान् । वृष᳚णः । शु॒क्रान् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्य पुत्राग्ने अद्यास्मिन्दिवसे नोऽस्मदीय इह कर्मणि जात आधानपवमानेश्टिभिः संस्कृतस्त्वं जातानुत्पन्नानुभयान्देवमनुष्यानन्तस्तेषामुभयेशां मध्ये दूतो हवींषि देवान्प्रापयितुमीयसे । गच्छसि । किं कुर्वन् । हे ऋष्व दर्शनीयाग्ने रुजुमुश्कान् । मुष्कशब्देन मांसलोऽभिधीऒयते । ऋजवः प्रसाधकाः । ऋजुवश्च ते मुष्काश्चेत्यृजुमुष्काः । तान्वृषणः रेतः सेचनसमर्थान् शुक्रान्दीप्यमानानश्वांश्च युयुजानः स्वरथे योजयन्नियसे । यद्वा । ऋष्व महन्नग्ने युयुजानो हविर्वहने नियुज्यमानस्त्वं वृषणो हविः सेवनसमर्थ्यान्यजमानान् दीप्तान्देवांश्चेयसे । सूनो सहसः । परमपि छन्दसीति सहसः पाराङ्गद्भावात् द्वयोः सर्वानुदात्तत्वम् । ईयसे । ईङ् गतौ । दिवादिः । निघातः । युयुजानः । युजेः वर्तमाने लिटि कानचि रूपम् । ऋष्व । संहितायामृत्यक इति प्रकृतिभावः । ऋजुमुश्कान् । समासस्वरः ॥ २ ॥

4.2.3
अत्या᳚ वृध॒स्नू रोहि᳚ता घृ॒तस्नू᳚ ऋ॒तस्य᳚ मन्ये॒ मन᳚सा॒ जवि᳚ष्ठा ।
अ॒न्तरी᳚यसे अरु॒षा यु᳚जा॒नो यु॒ष्मा{4}श्च᳚ दे॒वान्विश॒ आ च॒ मर्ता᳚न् ॥
▶ पदपाठः (Word-by-word)
अत्या᳚ । वृ॒ध॒स्नू इति᳚ वृ॒ध॒॑स्नू । रोहि᳚ता । घृ॒तस्नू॒ इति᳚ घृ॒त॑स्नू᳚ । ऋ॒तस्य᳚ । म॒न्ये॒ । मन᳚सा । जवि᳚ष्ठा ।
अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः᳚ । आ । च॒ । मर्ता᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ऋतस्य सत्यभूतस्य तव सम्बन्धिनौ मनसा मनसोऽपि जविष्ठा वेगवत्त्तमौ वृधस्नू । वर्धयतीति वृधमन्नम् । तत्क्षरन्तौ । घृतस्नू । घृतमुदकं तत्स्रवन्तौ रोहिता रोहितवर्णावत्प्याश्वौ मन्ये । स्त्ॐइ । अरुषारोचमानौ तावश्वौ युजानो रथे युञ्जानस्त्वं युष्मान् । देवेष्वग्नेरन्तर्भावाद्यजनीयरूपेण कीर्तनम् । युश्मान्यष्टव्यान्देवान् विशः परिचारकान्मर्तान्मनुष्यानन्तः । षष्ठ्यर्थे द्वितीया । तेषां मध्य अ समन्तादीयसे । हविः स्वीकर्तुं यजमानान् गच्छसि । तद्धविः प्रदतुं देवान् गच्छसि । मन्ये । मन्यरिरर्चतिकर्मा । मनसा । सुपां सुलुगिति पञ्चम्या आकारः । युजानः । युजिर् योगे । युजि बुधिदृशः किच्चेत्यानच् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ३ ॥

4.2.4
अ॒र्य॒मणं॒ वरु᳚णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚ अ॒श्विनो॒त ।
स्वश्वो᳚ अग्ने सु॒रथः᳚ सु॒राधा॒ एदु᳚ वह सुह॒विषे॒ जना᳚य ॥
▶ पदपाठः (Word-by-word)
अ॒र्य॒मण᳚म् । वरु᳚णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति᳚ । म॒रुतः᳚ । अ॒श्विना᳚ । उ॒त ।
सु॒॑अश्वः᳚ । अ॒ग्ने॒ । सु॒॑रथः᳚ । सु॒॑राधाः᳚ । आ । इत् । ऊं॒ इति᳚ । व॒ह॒ । सु॒॑ह॒विषे᳚ । जना᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वश्वः शोभनाश्वोपेतः सुरथः शोभनरथः सुराधाः शोभनधनोपेतस्त्वमेषां मर्त्यानां मध्ये सुहविषे शोभनहविष्काय जनाय यजमानायार्यमादीनुतापि चाश्विनौ यष्टव्यान्देवाना वहेदु । आह्वयैव । उः पूरणः । इन्द्राविष्णू । ऋज्रेन्द्रेत्यादिना निपातनादिन्द्रशब्द आद्युदात्तः । देवताद्वन्द्वे चेत्युभयपदप्रकृति स्वरत्वम् । सुहविषे । नञ्सुभ्यामित्युत्ततपदान्तोदात्तत्वं ॥ ४ ॥

4.2.5
गोमा{4}᳚ अ॒ग्ने॑वि᳚मा{4} अ॒श्वी य॒ज्ञो नृ॒वत्स᳚खा॒ सद॒मिद᳚प्रमृ॒ष्यः ।
इळा᳚वा{4} ए॒षो अ᳚सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ᳚थुबु॒ध्नः स॒भावा᳚न् ॥
▶ पदपाठः (Word-by-word)
गो॑मा᳚न् । अ॒ग्ने॒ । अवि᳚॑मान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्॑स᳚खा । सद᳚म् । इत् । अ॒प्र॒॑मृ॒ष्यः ।
इळा᳚॑वान् । ए॒षः । अ॒सु॒र॒ । प्र॒जा॑वा᳚न् । दी॒र्घः । र॒यिः । पृ॒थु॒॑बु॒ध्नः । स॒भा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुर बलवन्हे अग्ने एष मदीयोऽयं यज्ञो गोमान् गोभिस्तद्वानविमान् । अवयो मेशा अस्य सन्ति तद्वान् अश्व्यश्वोपेतश्चास्तु । नृवत्सखा । नरः कर्माणां नेतारोऽध्वर्व्यादयस्तद्वन्तः सखायोऽनुष्ठातरो यजमाना यस्य स तथोक्तः । सदमित्सदैवाप्रमृष्योऽप्रधृष्यश्चास्तु । तथेळावान् । इळा हविर्लक्षणमन्नं तद्वान् । प्रजावान्पुत्रपौत्रादियुक्तश्चास्तुफ़् । दीर्घोऽविच्छिन्नानुष्थानोपेतो रयिर्धनवान् । लुप्तमत्वर्थीयः । पृथुबुध्नः । पृथूनि बहुलानि बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः । सभावानुपद्रष्टृरूपसभायुक्तश्चास्तु । नृवत्सखा । नरो येषां सन्तीति नृवत् । मतुप् । तस्य छान्दसं वत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ५ ॥

4.2.6 समानपद
यस्त᳚ इ॒ध्मं ज॒भर᳚त्सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप᳚ते त्वा॒या ।
भुव॒स्तस्य॒ स्वत᳚वा{4}ः पा॒युर᳚ग्ने॒ विश्व᳚स्मात्सीमघाय॒त उ᳚रुष्य ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । इ॒ध्मम् । ज॒भर᳚त् । सि॒ष्वि॒दा॒नः । मू॒र्धान᳚म् । वा॒ । त॒तप᳚ते । त्वा॒॑या ।
भुवः᳚ । तस्य᳚ । स्व॑त᳚वान् । पा॒युः । अ॒ग्ने॒ । विश्व᳚स्मात् । सी॒म् । अ॒घ॒॑य॒तः । उ॒रु॒ष्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वदर्थं यः पुमान् सिष्विदानः सिस्विदानः स्विद्यद्गात्रः सन् इध्मं त्वत्समिन्धनार्थं काष्ठभारं जभरत् । आहरति । यो वा त्वाया त्वत्कामनया मूर्धानं स्वमस्तकं ततपते काष्ठभारेण तापयति तस्य तादृशस्य पुंसः स्वतवान् । स्वतवान्धनवानिति तलवकार उक्तम् । धनवान् भुवः । भवसि । पायुः पलयितासि । सीमेनं विश्वस्मादघायतोऽघं पापमिच्छतः पुरुषादुरुष्य । रक्ष । जभरत् । हरतेर्लुङि चङि रूपम् । चङ्यन्यतरस्यामिति चङ् पुर्व्स्योदात्तत्वम् । सिस्विदानः । ञष्विदागात्रक्षरणे । कानचि रूपम् । संहितायामादेशप्रत्यययोरिति धातुसकारस्य षत्वम् । त्वाया । त्वामात्मन इच्छतीत्यर्थे क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यन्तस्य त्वादेशः । दकारस्य छान्दसमात्वम् । क्यजन्ताद्धातोर्भावे अ प्रत्ययादित्यकार प्रत्ययः । सुपां सुलुगिति तृतीयाया आकारः । एकादेशस्वरः । भुवः । भवतेर्लेट्यडागमे रूपम् । भूसुवोस्तिङीति गुणप्रतिषेधः । आगमस्यानुदात्तत्वे धातुस्वरः । स्वतवाः पायुरित्यत्र संहितायां स्वतवान्पायौ । पा. ८-३-११ । इति नकारस्य रुत्वम् । अत्रानुनासिकः पुर्वस्य तु वेत्याकारोऽनुनासिकः । रेफस्य विसर्जनीयः । कुप्वोः कः पौ चेतिः प इत्यादेशः । अघायतः । अघमात्मन इच्छतीत्यर्थे सुपः क्यच् । अश्वाघस्यादित्यात्वम् । तदन्ताच्छतृप्रत्ययः । शतरनुम इति विभक्तेरुदात्तत्वम् । उरुष्य । उरुशब्दः कण्ड्वादिः । लोटि रूपम् । निघातः ॥ ६ ॥

4.2.7
यस्ते॒ भरा॒दन्नि᳚यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति᳚थिमु॒दीर᳚त् ।
आ दे᳚व॒युरि॒नध᳚ते दुरो॒णे तस्मि᳚न्र॒यिर्ध्रु॒वो अ᳚स्तु॒ दास्वा᳚न् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । भरा᳚त् । अन्नि᳚॑यते । चि॒त् । अन्न᳚म् । नि॒॑शिष᳚त् । म॒न्द्रम् । अति᳚थिम् । उ॒त्॑ईर᳚त् ।
आ । दे॒व॒॑युः । इ॒नध᳚ते । दु॒रो॒णे । तस्मि᳚न् । र॒यिः । ध्रु॒वः । अ॒स्तु॒ । दास्वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यः पुमानन्नियतेऽन्नमिच्छते ते त्य्भ्यं हविर्लक्शणं पुरोडाशादिकमन्नं भरात् दातुं बिभृयात् । चिचिति चार्थे । यश्च मन्द्रं मदकरं सोमं निशिशत् नितरां प्रयच्छति । यश्चातिथिमतिथिवत्पूज्यं त्वामुदीरत् उत्तरवेद्यां प्रणयति । आ अपि च यश्च देवयुर्देवं त्वां कामयमानो दुरोणे स्वकीये ग्रुह इनधते त्वां समिद्भिः समिन्धते तस्मिन्नेतस्मिन्पुरुषे रयिः पुत्रो ध्रुव आस्तिक्यबुद्ध्या वैदिके मार्गे निश्चलोऽस्तु । तथा दास्वानौदार्योपेतश्चास्तु । भरात् । डुभृञ् धारणपोषनयोरित्यस्य लेट्याडागमे रूपम् । यद्वृत्तयोगादनिघातः । अन्नियते । अन्नमात्मन इच्छते । क्यच् । क्चचि चेतित्वम् । ह्रस्वश्छान्दसः । निशिषत् । शासु अनुशिष्टौ । लुङि सर्तिशास्त्यर्तिभ्यश्चेति ज्लेरङादेशः । शास इदङ् हलोरितीत्वम् । उदीरत् । ईर गतौ । लेटि व्यत्ययेन परस्मै पदम् । अडागमः । आगमस्यानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । इनधते । ञ इन्धी दीप्तौ । लटि व्यत्ययेन शप् । रुधादित्वात् श्नम् । श्नान्नलोप इति धातुनकारलोपः क्ङित्परत्वाभावात् श्नसोरल्लोपाभावः । यद्वृत्तयोगादनिघातः । श्नमः स्वरः । दास्वान् । दासृ दाने । सम्पदादिलक्षणो भावे क्विप् । तदस्यास्तीति मतुप् । मादुपधाया इति वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥ ७ ॥

4.2.8
यस्त्वा᳚ दो॒षा य उ॒षसि᳚ प्र॒शंसा᳚त्प्रि॒यं वा᳚ त्वा कृ॒णव᳚ते ह॒विष्मा᳚न् ।
अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह᳚सः पीपरो दा॒श्वांस᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । त्वा॒ । दो॒षा । यः । उ॒षसि᳚ । प्र॒॑शंसा᳚त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव᳚ते । ह॒विष्मा᳚न् ।
अश्वः᳚ । न । स्वे । दमे᳚ । आ । हे॒म्या॑वा᳚न् । तम् । अंह᳚सः । पी॒प॒रः॒ । दा॒श्वांस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यः पुमान् दोषा दोषायां रात्रौ त्वां प्रशंसात् संस्तुयात् । यश्चोषसि प्रातः काले त्वां प्रशंसेत् । हविष्मान् संभृतहविष्को यो वा यजमानस्त्वा त्वां प्रियं हविर्भिः प्रीतं कृणवते । कुर्यात् । आ अथ दाश्वांसं हविर्दत्तवन्तं तं तादृशं यजमानं स्वे दमे स्वकीये गृहे हेम्यावान् सुवर्णनिर्मितकक्ष्यावानश्वो न आश्व इव सञ्चरंस्त्वमंहसः पापरूपाद्दारिद्र्यात्पीपरः । पारं नय । तस्मै यजमानाय बहु धनं प्रयच्छेत्यर्थः । दोषा । सप्तम्या आकारः । प्रशंसात् । शन्सु स्तुतौ । लेट्याडागमे रूपम् । कृणवते । कृवि हिंसाकरणयोरित्यस्य लेटि धिन्विकृण्व्योरच्छेत्युप्रत्ययः । लेटोऽडाटावित्यडागमः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । हेम्यावान् । हेमार्हति । छन्दसि चेति यः । पीपशः । पॄ पालनपूरणयोरित्यस्य ण्यन्तस्य लुङि चङि रूपम् । निघातः ॥ ८ ॥

4.2.9
यस्तुभ्य᳚मग्ने अ॒मृता᳚य॒ दाश॒द्दुव॒स्त्वे कृ॒णव᳚ते य॒तस्रु᳚क् ।
न स रा॒या श᳚शमा॒नो वि यो᳚ष॒न्नैन॒मंह॒ः परि᳚ वरदघा॒योः ॥
▶ पदपाठः (Word-by-word)
यः । तुभ्य᳚म् । अ॒ग्ने॒ । अ॒मृता᳚य । दाश᳚त् । दुवः᳚ । त्वे इति᳚ । कृ॒णव᳚ते । य॒त॑स्रु᳚क् ।
न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः᳚ । परि᳚ । व॒र॒त् । अ॒घ॒॑योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यो यजमानोऽमृताय मरणधर्मरहिताय तुभ्यं दाशत् हवींषि प्रयच्छेत् । यतस्रुक् संयतस्रुक् यश्च यजमानस्त्वे त्वयि दुवः परिचर्यां कृणवते करोति शशमानः स्तोत्रं कुर्वाणः स यजमानो राया धनेन न वि योषत् । न पृघग्भवेत् । सदा धनयुक्तो भवेदित्यर्थः । अघायोः पापमिच्छतो हिंसकस्य सम्बन्ध्यंह आहननं पापमेनं यजमानं न परि वरत् । न परिवृणुयात् । न स्पृशेदित्यर्थः । दाशत् । दाशृ दाने । लेट्यडागमे रूपम् । त्वे । सुपां सुलुगिति सप्तम्याः शे इत्यादेशः । कृणवते । यद्वृत्तयोगादनिघातः । योषत् । यु मिश्रने । लेटि सिब्बहुलमिति सिप् । अडागमः । निघातः । वरत् वृञ् वरणे । लेटि रूपं ॥ ९ ॥

4.2.10
यस्य॒ त्वम᳚ग्ने अध्व॒रं जुजो᳚षो दे॒वो मर्त᳚स्य॒ सुधि᳚तं॒ ररा᳚णः ।
प्री॒तेद᳚स॒द्धोत्रा॒ सा य᳚वि॒ष्ठासा᳚म॒ यस्य᳚ विध॒तो वृ॒धासः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो᳚षः । दे॒वः । मर्त᳚स्य । सु॒॑धि᳚तम् । ररा᳚णः ।
प्री॒ता । इत् । अ॒स॒त् । होत्रा᳚ । सा । य॒वि॒ष्ठ॒ । असा᳚म । यस्य᳚ । वि॒ध॒तः । वृ॒धासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने रराणो रममाणो देवो दीप्यमानस्त्वं यस्य मर्त्यस्य मनुष्यस्य संबन्धि सुधितं त्वदर्थं सुष्थु निहितमध्वरमनुपहतं हविर्लक्षणमन्नं जुजोषः सेवेथा हे यविष्ठ युवतम सा होत्रा स होता यजमानः प्रीतेदसत् । प्रीत एव भवेत् । असाम तस्य यजमानस्य सम्बन्धिनो भवेम यस्य विधतोऽग्निपरिचर्यां कुर्वतो यजमानस्य होत्रादयो वृधासो यज्ञस्य वर्धयितारो भवन्ति । जुजोषः । जुषी प्रीतिसेवनयोरित्यस्य बहुलं छन्दसीति श्लुः । अडागमः । अभ्यस्तस्वरः । सुधितम् । दधातेर्निष्ठायां सुधितवसुधितेति निपातनात् ध्यादेशः । गतिरनन्तर इति गतेः स्वरः । असाम । अस्तेर्लोट्याडुत्तमस्य पिच्चेत्याडागमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः । विधतः । विध विधाने । तुदादिः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १० ॥

4.2.11 समानपद
चित्ति॒मचि᳚त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव᳚ वी॒ता वृ᳚जि॒ना च॒ मर्ता᳚न् ।
रा॒ये च᳚ नः स्वप॒त्याय᳚ देव॒ दितिं᳚ च॒ रास्वादि᳚तिमुरुष्य ॥
▶ पदपाठः (Word-by-word)
चित्ति᳚म् । अचि᳚त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्ठा॑इ᳚व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता᳚न् ।
रा॒ये । च॒ । नः॒ । सु॒॑अ॒प॒त्याय᳚ । दे॒व॒ । दिति᳚म् । च॒ । रास्व᳚ । अदि᳚तिम् । उ॒रु॒ष्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विद्वान् प्राणिनां पुण्यपापरूपाणि कर्माणि जानानः सोऽग्निश्चित्तिं ज्ञातव्यं पुण्यमचित्तिमनुपादेयत्वेनाचेतनीयं पापम् । यद्वा । चित्तिं ज्ञानमचित्तिमज्ञानं वि चिनवत् । विचिनोतु । पृथक्करोतु । तत्र दृष्टान्तः । पृष्ठेव । यथाश्वपालोऽश्वानां वीता कान्तानि वृजिना दुर्वहाणि च पृष्ठा पृय्श्थानि ज्ञेयोपादेयत्वेन पृथक्करोति तद्वत् । किञ्च मर्तान्पुण्यकृतोऽपुण्यकृतश्च मनुष्यान् पृथक्करोतु । हे देवाग्ने स्वपत्याय शोभनपुत्रोपेताय राये धनाय नोऽस्मान् कुरु । दितिं दातारं च रास्व । देहि । अदितिम् । पञ्चम्यर्थे द्वितीया । अदातुः सकाशादुरुष्य । रक्ष । चित्तिम् । चेती संज्ञाने । स्त्रियां क्तिन् । नित्त्वादाद्युदात्तः । चिनवत् । चिनोतेर्लेट्यडागमः । दितिम् । दाण् दाने । कर्तरि क्तिन् । रास्व । रा दाने । लोटि व्यत्ययेनात्मनेपदम् । चवायोगे प्रथमेति न निघातः ॥ ११ ॥

4.2.12
क॒विं श᳚शासुः क॒वयो॑द᳚ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः ।
अत॒स्त्वं दृश्या{4}᳚ अग्न ए॒तान्प॒ड्भिः प᳚श्ये॒रद्भु᳚ता{4} अ॒र्य एवै᳚ः ॥
▶ पदपाठः (Word-by-word)
क॒विम् । श॒शा॒सुः॒ । क॒वयः᳚ । अद᳚ब्धाः । नि॒॑धा॒रय᳚न्तः । दुर्या᳚सु । आ॒योः ।
अतः᳚ । त्वम् । दृश्या᳚न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्॑भिः । प॒श्येः॒ । अद्भु᳚तान् । अ॒र्यः । एवैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने आयोर्मनुष्यस्य दुर्यासु गृहेष्वदब्धाः केनाप्यरितस्कृता निधारयन्तो निवसन्तः कवयह् क्रान्तदृशो देवाः कविं मेधाविनं त्वां शशासुः; होता भवेति शशंसुः । अतः कारणादर्यो यज्ञस्य स्वामी त्वं दृश्यान्दर्शनीयानद्भुतानाश्चर्यरूपोपेतानिन्द्रादीनेतान्देवानेवैर्गमनशीलैः षड्भिः पादैः स्वतेजोभिः पश्येः । जानीयाः । दृश्यान् । दृशिर् प्रेक्षणे । ऋदुपधाच्चाक्लृपिचृतेः । पा. ३-१-११० । इति कर्मणि क्यप् । कित्त्वादगुणः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १२ ॥

4.2.13
त्वम᳚ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य᳚विष्ठ ।
रत्नं᳚ भर शशमा॒नाय᳚ घृष्वे पृ॒थु श्च॒न्द्रमव᳚से चर्षणि॒प्राः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वा॒घते᳚ । सु॒॑प्रनी᳚तिः । सु॒त॑सो᳚माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ ।
रत्न᳚म् । भ॒र॒ । श॒श॒मा॒नाय᳚ । घृष्वे॒ । पृ॒थु । च॒न्द्रम् । अव᳚से । च॒र्ष॒णि॒॑प्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ युवतम घृष्टे दीप्तियुक्त । यद्वा । परेषां घर्षणशील हे अग्ने चर्षणिप्रा अपेक्षितप्रदानेन मनुष्याणां कामपुरकः सुप्रणीतिः सूष्ठूत्तरवेद्यां प्रनयनीयस्त्वं सुतसोमाय विधते तव परिचरणं कुर्वते शशमानाय त्वां स्तुवते वाघते यज्ञनिर्वाहकाय यजमानाय पृथु प्रभूतं चन्दर्माह्लादकारि रत्नमुत्तमं धनमवसे रक्षणाय भर । आहर । प्रयच्छेत्यर्थः । सुप्रणीतिः । णिञ् प्रापने । कर्मणि क्तिन् । तदौ च निति कृतीत्यनन्तरप्रशब्दस्योदात्तत्वम् । पृथु श्चन्द्रमित्यत्र सम्हितायां ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । श्चुत्वेन शकारः ॥ १३ ॥

4.2.14
अधा᳚ ह॒ यद्व॒यम᳚ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभि᳚ः ।
रथं॒ न क्रन्तो॒ अप᳚सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य᳚ आशुषा॒णाः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒॑या । प॒ट्॑भिः । हस्ते᳚भिः । च॒कृ॒म । त॒नूभिः᳚ ।
रथ᳚म् । न । क्रन्तः᳚ । अप᳚सा । भु॒रिजोः᳚ । ऋ॒तम् । ये॒मुः॒ । सु॒॑ध्यः᳚ । आ॒शु॒षा॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अध ह अथ खलु वयं त्वाया त्वत्कामनया षड्भिः पादैर्हस्तेभिर्हस्तैस्तनूभिरन्यैश्चावयवैश्च क्रुम यत् यस्मत्कारनात्कर्मसिद्ध्यर्थं त्वामुपपादयामस्तस्मास्तुध्यः सुकर्माण आशुषानाः कर्माणि व्याप्नुवन्तस्तेऽङ्गिरस ऋतं सत्यभूतं त्वां भुरिजोः । बिभृतः कर्मकरणसामर्थ्यं पदार्थान्वेति भुरिजौ चाहू । तयोरपसा मन्थनाख्येन कर्मणा येमुः । उद्यच्छन्ति । तत्र दृष्टान्तः । रथं न । यथा क्रन्तः कारवः शिल्पिनः क्रामन्तोऽध्वगा वा हस्तयोर्यथा रथमुद्यच्छन्ति तद्वत् । यद्वा । भुरिजोः । देवान्मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ । तयोर्मध्येऽपसा परिचरणकर्मणा सत्यभूतं तमग्निं येमुः । उद्यच्छन्ति । अध । सम्हितायां निपातस्य चेति दीर्घः । क्रन्तः । करोतेः शतरि बहुलं छन्दसीति विकरणस्य लुक् । प्रत्ययस्वरः । भुरिजोः । डुभृञ् धारन पोषनयोः । भृञ् उच्च । उ. २-७१ । इतीजिप्रत्ययः । धातोरुकारो रपरः । प्रत्ययस्वरः ॥ १४ ॥

4.2.15
अधा᳚ मा॒तुरु॒षसः᳚ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् ।
दि॒वस्पु॒त्रा अङ्गि᳚रसो भवे॒माद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । मा॒तुः । उ॒षसः᳚ । स॒प्त । विप्राः᳚ । जाये᳚महि । प्र॒थ॒माः । वे॒धसः᳚ । नॄन् ।
दि॒वः । पु॒त्राः । अङ्गि᳚रसः । भ॒वे॒म॒ । अद्रि᳚म् । रु॒जे॒म॒ । ध॒निन᳚म् । शु॒चन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वामदेवोऽन्यैः षड्भिरङ्गिरोभिः सह ब्रूते । अधापि च मातुरुषसः सकाशात्सप्त सप्तसंख्याका विप्राः प्राज्ञा वयं स्मः । प्रथमाः श्रेष्ठा वयं वेधसोऽग्नेः परिचारकान्नॄन् वेधसो विधातृन् रश्मीन् वा जायेमहि । वयं जनयामः । दिवो द्योतमानस्यादित्यस्य पुत्रा वयमङ्गिरसो भवेम । भूतिमन्तः स्याम । शुचन्तो दीप्यमाना वयं धनिनमुदकवन्तमद्रिं मेघं रुजेम । वर्षार्थं भिन्द्याम । यद्वा । धनिनं पणिनामकासुरापहृतगोधनयुक्तमद्रिं पर्वतं रुजेम । अङ्गिरसामादित्यपुत्रत्वमेवमाम्नायते । तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवदित्युपक्रम्य येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ऐ. ब्रा. ३-३४ । इति । जायेमहि । जनी प्रादुर्भावे । लिङि ज्ञाजनोर्जेति जादेशः । वेधसः । डुधाञ् धारणपोषणयोरित्यस्माद्विधाञो वेध च । उ. ४-२२४ । इत्यसि प्रत्ययः । धातोर्वेध इत्यादेशः । दिवस्पुत्रा इत्यत्र संहितायां षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । रुजेम । रुजो भङ्गे । अदादिः । लिञि रूपं ॥ १५ ॥

4.2.16
अधा॒ यथा᳚ नः पि॒तर॒ः परा᳚सः प्र॒त्नासो᳚ अग्न ऋ॒तमा᳚शुषा॒णाः ।
शुचीद᳚य॒न्दीधि᳚तिमुक्थ॒शास॒ः क्षामा᳚ भि॒न्दन्तो᳚ अरु॒णीरप᳚ व्रन् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । यथा᳚ । नः॒ । पि॒तरः᳚ । परा᳚सः । प्र॒त्नासः᳚ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
शुचि᳚ । इत् । अ॒य॒न् । दीधि᳚तिम् । उ॒क्थ॒॑शसः᳚ । क्षामा᳚ । भि॒न्दन्तः᳚ । अ॒रु॒णीः । अप᳚ । व्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अधापि च परासः श्रेष्ठाः प्रत्नासः पुराणा ऋतं सत्यभुतं यज्ञं यथा यथावदाशुषाणा अश्नुवाना नोऽस्माकं पितरोङ्गिरसः शुचिदीप्तं स्थानमयन् । अगच्छन् । तथा दीधितिं तेजश्चागच्छन् । किञ्च उक्थशास उक्थानां शस्त्रानां शंसितारः क्षाम क्शयकारणं तमः पापं वा भिन्दतो विनाशयन्तोऽङ्गिरसोऽरुणीररुणवर्णाः पणिभिरपहृता गा उषसो वा अप व्रन् । अपावृण्वन् । प्रकाशितवन्त इत्यर्थः । अयन् । इण् गतौ । लङीणो यण्णिति यण् । व्यत्ययेनाडागमः । दीधितिम् । दीधिङ् दीप्तिदेवनयोरित्यस्मात् क्तिनि ह्रस्वश्छान्दसः । नित्त्वादाद्युदात्तः । उक्थशासः । उक्थशब्द उपपदे शन्सु स्तुतावित्यस्मान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्निति ण्विन् नकारलोपश्च निपातनादेव । पदकाले ह्रस्वश्छान्दसः । अरुणीः । गौरादिङीषन्तः । एकादेशस्वरः । व्रन् । वृणोतेर्लुङि मन्त्रे घसेत्यादिना च्लेर्लुक् । निघातः ॥ १६ ॥

4.2.17 समानपद
सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तो॑यो॒ न दे॒वा जनि᳚मा॒ धम᳚न्तः ।
शु॒चन्तो᳚ अ॒ग्निं व᳚वृ॒धन्त॒ इन्द्र᳚मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो अग्मन् ॥
▶ पदपाठः (Word-by-word)
सु॒॑कर्मा᳚णः । सु॒॑रुचः᳚ । दे॒व॒॑यन्तः᳚ । अयः᳚ । न । दे॒वाः । जनि᳚म । धम᳚न्तः ।
शु॒चन्तः᳚ । अ॒ग्निम् । व॒वृ॒धन्तः᳚ । इन्द्र᳚म् । ऊ॒र्वम् । गव्य᳚म् । प॒रि॒॑सद᳚न्तः । अ॒ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्रयण अग्नेन्द्रस्य हविषः सुकर्माण इति याज्या । सूत्रितं च । सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आगत । आ. २-९ । इति ॥

सुकर्माणः सुष्ठ्वनुष्ठितयागादिकर्मानः सुरुचः शोभनदीप्तयो देवयन्तो देवान् कामयमाना देवा देवनशीलाः स्तोतारो जनिम स्वकीयं मानुषं जन्म धमन्तो यागादिलक्षनेन कर्माणा निर्मलीकुर्वन्तः । तत्र दृष्टान्तः । अयो न । यथा कर्मारा अयो भस्त्रेण धमन्ति तद्वत् । दादृशा अग्निं शुचन्तो हविर्भिर्दीपयन्त इन्द्रं ववृधन्तः सोमेन स्तुत्या वा वधयन्तोऽङ्गिरसः परिषदन्तः परितः सीदन्तः सन्त ऊर्वं महान्तं गव्यं गोसङ्घमग्मन् । प्राप्नुवन् । सुकर्माणः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । धमन्तः । ध्मा शब्दाग्नि संयोगयोः । शतरि पाघ्रादिना धमादेशः शपः पित्त्वादनुदात्तत्वे शतुर्लसार्वधातुकस्वरः । ववृधन्तः । वृधु वर्धने । व्यत्ययेन परस्मैपदम् । शतरि शपः श्लुः । गव्यम् । गवां समूह इत्यर्थे खलगोरथादिति यः । अग्मन् । गमेर्लुङि ज्लेर्लुकि रूपं ॥ १७ ॥

4.2.18
आ यू॒थेव᳚ क्षु॒मति᳚ प॒श्वो अ᳚ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु᳚ग्र ।
मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन्वृ॒धे चि᳚द॒र्य उप᳚रस्या॒योः ॥
▶ पदपाठः (Word-by-word)
आ । यू॒था॑इ᳚व । क्षु॒॑मति᳚ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना᳚म् । यत् । जनि᳚म । अन्ति᳚ । उ॒ग्र॒ ।
मर्ता᳚नाम् । चि॒त् । उ॒र्वशीः᳚ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप᳚रस्य । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्र तेजस्विन्हे अग्ने देवानामङ्गिरसां सम्बन्धि यज्जनिम यं गोसङ्घमन्ति पर्वतस्य समीप आख्यत् । आ समन्तादिन्द्रोऽपश्यत् । तत्र दृष्टान्तः । यूथेव । यथा पश्वः पशूनां गवां यूथानि क्शुमत्यन्नवत्याढ्यगृहे वर्तमानानि पश्यन्ति जनास्तद्वत् । यद्वा । हे अग्ने तव परिचारकोङ्गिरोगणो देवानामिन्द्रादीनां यज्जनिम योऽयं जनोऽन्ति मदन्तिके पश्वः पणिभिरपहैतान्पशूनाख्यत् । समन्तात्पश्यति । तत्र दृष्टान्तः । यथा क्षुमति शब्दं कुर्वाणे गवां यूथा यूथे पशून्पत्यन्ति तद्वत् । मर्तानां चिन्मनुष्याणामुर्वशीरूरुभ्यामश्नुवानाः । उर्वभ्यश्नुत ऊरुभ्यामश्नुत इति यास्कः । नि. ५-१६ । प्रजा अकृप्रन् । ताभिरानीताभिर्गोभिः क्लृप्ताः समर्था अभवन् । चिदपि च अर्यः स्वामी लब्ध गोधन उपरस्योप्तस्य निषिक्तस्यापत्यस्य वृधे वर्धनाय समर्थो भवति । तत्यायोर्मनुष्यस्य भृत्यादेश्च पोशणे समर्थो भवति । यूथेव । शसः सप्तम्या वा डादेशः । क्शुमति । क्शुदित्यन्ननाम । यद्वा । टुक्षु शब्दे । भावे क्विप् । छान्दसस्तकारलोपः । तदस्यास्तीति मतुप् । ह्रस्रनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । अख्यत् । ख्या प्रकथने । लुङि च्लेरस्यतिवक्तिख्यातिभ्योऽङ्गित्यङादेशः । आतो लोपः । जनिम । जनी प्रादुर्भावे । हृजनिभ्यामिमनिन्नितीमनिन्प्रत्ययः । नित्त्वादद्युदात्तः । अकृप्रन् । कृपू सामर्थ्ये । लङि बहुलं छन्दसीति विकरणस्य लुक् । रुडागमः ॥ १८ ॥

4.2.19 समानपद
अक᳚र्म ते॒ स्वप᳚सो अभूम ऋ॒तम᳚वस्रन्नु॒षसो᳚ विभा॒तीः ।
अनू᳚नम॒ग्निं पु᳚रु॒धा सु᳚श्च॒न्द्रं दे॒वस्य॒ मर्मृ᳚जत॒श्चारु॒ चक्षु᳚ः ॥
▶ पदपाठः (Word-by-word)
अक᳚र्म । ते॒ । सु॒॑अप᳚सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः᳚ । वि॒॑भा॒तीः ।
अनू᳚नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒॑च॒न्द्रम् । दे॒वस्य᳚ । मर्मृ᳚जतः । चारु᳚ । चक्षुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव परिचरणमकर्म । कुर्मः । तेन कर्मणा स्वपसः शोभनकर्माणोऽभूम । विभातीर्व्युच्छन्त्य उषस ऋतं तेजोऽवस्रन् । आच्छादयन्ति । धारयन्तीत्यर्थः । तथा ता उषसोऽनूनं संपूर्णं पुरुधा बहुधा सुश्चन्द्रं सुष्ठ्वह्लादकारिणं यद्वा सुहिरण्यमग्निं धारयन्ति । किञ्च देवस्य द्योतमानस्य तव चारु मनोहरं चक्षुस्तेजो मर्मृजतः परिचरन्तो वयं स्वपसोऽभूमेति पुर्वेणान्वयः । अकर्म । करोतेर्लङि बहुलं छन्दसीति विकरनस्य लुक् । मर्मृजतः । म्रुजूश् शुद्धौ । यङ् लुकि रुग्रिकौ च लुकीत्यभ्यासस्य रुगागमः । शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः ॥ १९ ॥

4.2.20
ए॒ता ते᳚ अग्न उ॒चथा᳚नि वे॒धो॑वो᳚चाम क॒वये॒ ता जु᳚षस्व ।
उच्छो᳚चस्व कृणु॒हि वस्य᳚सो नो म॒हो रा॒यः पु᳚रुवार॒ प्र य᳚न्धि ॥
▶ पदपाठः (Word-by-word)
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा᳚नि । वे॒धः॒ । अवो᳚चाम । क॒वये᳚ । ता । जु॒ष॒स्व॒ ।
उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य᳚सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒॑वा॒र॒ । प्र । य॒न्धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधो विधातर्हे अग्ने कवये मेधाविने ते तुभ्यमेतैतान्युचथान्युक्थानि शस्त्राण्यवोचाम । त्वं ता तानि जुषस्व । सेवस्व । किञ्च त्वमुच्छोचस्व । उद्दीप्यस्व । नोऽस्मान्वस्यसोऽतिशयेन धनयुक्तान् कृणुहि । कुरु । तदेवोच्यते । पुरुवारपुरुभिर्बहुभिर्वरणिय महो रायो महद्धनं प्र यन्धि । अस्मभ्यं प्रयच्छ । अवोचाम । वच परिभाषणे । लुङि च्लेरङादेशः । पादादित्वादनिघातः । कृणुहि । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । तिङ उत्तरत्वादनिघातः । वस्यसः । वसुमच्छब्दादीयसुनि विन्मतोर्लुगिति मतुपो लुकि टिलोपे च कृत ईकारलोपश्छान्दसः । यन्धि । यमेर्लोटि बहुलं छन्दसिति विकरनस्य लुक् । वा छन्दसीति हेर्विकल्पेन पित्त्वादङितश्चेति धिरादेशः ॥ २० ॥