श्रवणम्

4.2.4
अ॒र्य॒मणं॒ वरु᳚णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚ अ॒श्विनो॒त ।
स्वश्वो᳚ अग्ने सु॒रथः᳚ सु॒राधा॒ एदु᳚ वह सुह॒विषे॒ जना᳚य ॥
▶ पदपाठः (Word-by-word)
अ॒र्य॒मण᳚म् । वरु᳚णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति᳚ । म॒रुतः᳚ । अ॒श्विना᳚ । उ॒त ।
सु॒॑अश्वः᳚ । अ॒ग्ने॒ । सु॒॑रथः᳚ । सु॒॑राधाः᳚ । आ । इत् । ऊं॒ इति᳚ । व॒ह॒ । सु॒॑ह॒विषे᳚ । जना᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वश्वः शोभनाश्वोपेतः सुरथः शोभनरथः सुराधाः शोभनधनोपेतस्त्वमेषां मर्त्यानां मध्ये सुहविषे शोभनहविष्काय जनाय यजमानायार्यमादीनुतापि चाश्विनौ यष्टव्यान्देवाना वहेदु । आह्वयैव । उः पूरणः । इन्द्राविष्णू । ऋज्रेन्द्रेत्यादिना निपातनादिन्द्रशब्द आद्युदात्तः । देवताद्वन्द्वे चेत्युभयपदप्रकृति स्वरत्वम् । सुहविषे । नञ्सुभ्यामित्युत्ततपदान्तोदात्तत्वं ॥ ४ ॥