अत्या᳚ वृध॒स्नू रोहि᳚ता घृ॒तस्नू᳚ ऋ॒तस्य᳚ मन्ये॒ मन᳚सा॒ जवि᳚ष्ठा ।
अ॒न्तरी᳚यसे अरु॒षा यु᳚जा॒नो यु॒ष्मा{4}श्च᳚ दे॒वान्विश॒ आ च॒ मर्ता᳚न् ॥
अ॒न्तरी᳚यसे अरु॒षा यु᳚जा॒नो यु॒ष्मा{4}श्च᳚ दे॒वान्विश॒ आ च॒ मर्ता᳚न् ॥
पदपाठः (Word-by-word)
अत्या᳚ । वृ॒ध॒स्नू इति᳚ वृ॒ध॒॑स्नू । रोहि᳚ता । घृ॒तस्नू॒ इति᳚ घृ॒त॑स्नू᳚ । ऋ॒तस्य᳚ । म॒न्ये॒ । मन᳚सा । जवि᳚ष्ठा ।
अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः᳚ । आ । च॒ । मर्ता᳚न् ॥
अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः᳚ । आ । च॒ । मर्ता᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने ऋतस्य सत्यभूतस्य तव सम्बन्धिनौ मनसा मनसोऽपि जविष्ठा वेगवत्त्तमौ वृधस्नू । वर्धयतीति वृधमन्नम् । तत्क्षरन्तौ । घृतस्नू । घृतमुदकं तत्स्रवन्तौ रोहिता रोहितवर्णावत्प्याश्वौ मन्ये । स्त्ॐइ । अरुषारोचमानौ तावश्वौ युजानो रथे युञ्जानस्त्वं युष्मान् । देवेष्वग्नेरन्तर्भावाद्यजनीयरूपेण कीर्तनम् । युश्मान्यष्टव्यान्देवान् विशः परिचारकान्मर्तान्मनुष्यानन्तः । षष्ठ्यर्थे द्वितीया । तेषां मध्य अ समन्तादीयसे । हविः स्वीकर्तुं यजमानान् गच्छसि । तद्धविः प्रदतुं देवान् गच्छसि । मन्ये । मन्यरिरर्चतिकर्मा । मनसा । सुपां सुलुगिति पञ्चम्या आकारः । युजानः । युजिर् योगे । युजि बुधिदृशः किच्चेत्यानच् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ३ ॥