श्रवणम्

4.2.17 समानपद
सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तो॑यो॒ न दे॒वा जनि᳚मा॒ धम᳚न्तः ।
शु॒चन्तो᳚ अ॒ग्निं व᳚वृ॒धन्त॒ इन्द्र᳚मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो अग्मन् ॥
▶ पदपाठः (Word-by-word)
सु॒॑कर्मा᳚णः । सु॒॑रुचः᳚ । दे॒व॒॑यन्तः᳚ । अयः᳚ । न । दे॒वाः । जनि᳚म । धम᳚न्तः ।
शु॒चन्तः᳚ । अ॒ग्निम् । व॒वृ॒धन्तः᳚ । इन्द्र᳚म् । ऊ॒र्वम् । गव्य᳚म् । प॒रि॒॑सद᳚न्तः । अ॒ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्रयण अग्नेन्द्रस्य हविषः सुकर्माण इति याज्या । सूत्रितं च । सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आगत । आ. २-९ । इति ॥

सुकर्माणः सुष्ठ्वनुष्ठितयागादिकर्मानः सुरुचः शोभनदीप्तयो देवयन्तो देवान् कामयमाना देवा देवनशीलाः स्तोतारो जनिम स्वकीयं मानुषं जन्म धमन्तो यागादिलक्षनेन कर्माणा निर्मलीकुर्वन्तः । तत्र दृष्टान्तः । अयो न । यथा कर्मारा अयो भस्त्रेण धमन्ति तद्वत् । दादृशा अग्निं शुचन्तो हविर्भिर्दीपयन्त इन्द्रं ववृधन्तः सोमेन स्तुत्या वा वधयन्तोऽङ्गिरसः परिषदन्तः परितः सीदन्तः सन्त ऊर्वं महान्तं गव्यं गोसङ्घमग्मन् । प्राप्नुवन् । सुकर्माणः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । धमन्तः । ध्मा शब्दाग्नि संयोगयोः । शतरि पाघ्रादिना धमादेशः शपः पित्त्वादनुदात्तत्वे शतुर्लसार्वधातुकस्वरः । ववृधन्तः । वृधु वर्धने । व्यत्ययेन परस्मैपदम् । शतरि शपः श्लुः । गव्यम् । गवां समूह इत्यर्थे खलगोरथादिति यः । अग्मन् । गमेर्लुङि ज्लेर्लुकि रूपं ॥ १७ ॥