शुचीद᳚य॒न्दीधि᳚तिमुक्थ॒शास॒ः क्षामा᳚ भि॒न्दन्तो᳚ अरु॒णीरप᳚ व्रन् ॥
पदपाठः (Word-by-word)
शुचि᳚ । इत् । अ॒य॒न् । दीधि᳚तिम् । उ॒क्थ॒॑शसः᳚ । क्षामा᳚ । भि॒न्दन्तः᳚ । अ॒रु॒णीः । अप᳚ । व्र॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अधापि च परासः श्रेष्ठाः प्रत्नासः पुराणा ऋतं सत्यभुतं यज्ञं यथा यथावदाशुषाणा अश्नुवाना नोऽस्माकं पितरोङ्गिरसः शुचिदीप्तं स्थानमयन् । अगच्छन् । तथा दीधितिं तेजश्चागच्छन् । किञ्च उक्थशास उक्थानां शस्त्रानां शंसितारः क्षाम क्शयकारणं तमः पापं वा भिन्दतो विनाशयन्तोऽङ्गिरसोऽरुणीररुणवर्णाः पणिभिरपहृता गा उषसो वा अप व्रन् । अपावृण्वन् । प्रकाशितवन्त इत्यर्थः । अयन् । इण् गतौ । लङीणो यण्णिति यण् । व्यत्ययेनाडागमः । दीधितिम् । दीधिङ् दीप्तिदेवनयोरित्यस्मात् क्तिनि ह्रस्वश्छान्दसः । नित्त्वादाद्युदात्तः । उक्थशासः । उक्थशब्द उपपदे शन्सु स्तुतावित्यस्मान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्निति ण्विन् नकारलोपश्च निपातनादेव । पदकाले ह्रस्वश्छान्दसः । अरुणीः । गौरादिङीषन्तः । एकादेशस्वरः । व्रन् । वृणोतेर्लुङि मन्त्रे घसेत्यादिना च्लेर्लुक् । निघातः ॥ १६ ॥