श्रवणम्

4.2.8
यस्त्वा᳚ दो॒षा य उ॒षसि᳚ प्र॒शंसा᳚त्प्रि॒यं वा᳚ त्वा कृ॒णव᳚ते ह॒विष्मा᳚न् ।
अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह᳚सः पीपरो दा॒श्वांस᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । त्वा॒ । दो॒षा । यः । उ॒षसि᳚ । प्र॒॑शंसा᳚त् । प्रि॒यम् । वा॒ । त्वा॒ । कृ॒णव᳚ते । ह॒विष्मा᳚न् ।
अश्वः᳚ । न । स्वे । दमे᳚ । आ । हे॒म्या॑वा᳚न् । तम् । अंह᳚सः । पी॒प॒रः॒ । दा॒श्वांस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यः पुमान् दोषा दोषायां रात्रौ त्वां प्रशंसात् संस्तुयात् । यश्चोषसि प्रातः काले त्वां प्रशंसेत् । हविष्मान् संभृतहविष्को यो वा यजमानस्त्वा त्वां प्रियं हविर्भिः प्रीतं कृणवते । कुर्यात् । आ अथ दाश्वांसं हविर्दत्तवन्तं तं तादृशं यजमानं स्वे दमे स्वकीये गृहे हेम्यावान् सुवर्णनिर्मितकक्ष्यावानश्वो न आश्व इव सञ्चरंस्त्वमंहसः पापरूपाद्दारिद्र्यात्पीपरः । पारं नय । तस्मै यजमानाय बहु धनं प्रयच्छेत्यर्थः । दोषा । सप्तम्या आकारः । प्रशंसात् । शन्सु स्तुतौ । लेट्याडागमे रूपम् । कृणवते । कृवि हिंसाकरणयोरित्यस्य लेटि धिन्विकृण्व्योरच्छेत्युप्रत्ययः । लेटोऽडाटावित्यडागमः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । हेम्यावान् । हेमार्हति । छन्दसि चेति यः । पीपशः । पॄ पालनपूरणयोरित्यस्य ण्यन्तस्य लुङि चङि रूपम् । निघातः ॥ ८ ॥