रथं॒ न क्रन्तो॒ अप᳚सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य᳚ आशुषा॒णाः ॥
पदपाठः (Word-by-word)
रथ᳚म् । न । क्रन्तः᳚ । अप᳚सा । भु॒रिजोः᳚ । ऋ॒तम् । ये॒मुः॒ । सु॒॑ध्यः᳚ । आ॒शु॒षा॒णाः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने अध ह अथ खलु वयं त्वाया त्वत्कामनया षड्भिः पादैर्हस्तेभिर्हस्तैस्तनूभिरन्यैश्चावयवैश्च क्रुम यत् यस्मत्कारनात्कर्मसिद्ध्यर्थं त्वामुपपादयामस्तस्मास्तुध्यः सुकर्माण आशुषानाः कर्माणि व्याप्नुवन्तस्तेऽङ्गिरस ऋतं सत्यभूतं त्वां भुरिजोः । बिभृतः कर्मकरणसामर्थ्यं पदार्थान्वेति भुरिजौ चाहू । तयोरपसा मन्थनाख्येन कर्मणा येमुः । उद्यच्छन्ति । तत्र दृष्टान्तः । रथं न । यथा क्रन्तः कारवः शिल्पिनः क्रामन्तोऽध्वगा वा हस्तयोर्यथा रथमुद्यच्छन्ति तद्वत् । यद्वा । भुरिजोः । देवान्मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ । तयोर्मध्येऽपसा परिचरणकर्मणा सत्यभूतं तमग्निं येमुः । उद्यच्छन्ति । अध । सम्हितायां निपातस्य चेति दीर्घः । क्रन्तः । करोतेः शतरि बहुलं छन्दसीति विकरणस्य लुक् । प्रत्ययस्वरः । भुरिजोः । डुभृञ् धारन पोषनयोः । भृञ् उच्च । उ. २-७१ । इतीजिप्रत्ययः । धातोरुकारो रपरः । प्रत्ययस्वरः ॥ १४ ॥