श्रवणम्

4.2.10
यस्य॒ त्वम᳚ग्ने अध्व॒रं जुजो᳚षो दे॒वो मर्त᳚स्य॒ सुधि᳚तं॒ ररा᳚णः ।
प्री॒तेद᳚स॒द्धोत्रा॒ सा य᳚वि॒ष्ठासा᳚म॒ यस्य᳚ विध॒तो वृ॒धासः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । त्वम् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जुजो᳚षः । दे॒वः । मर्त᳚स्य । सु॒॑धि᳚तम् । ररा᳚णः ।
प्री॒ता । इत् । अ॒स॒त् । होत्रा᳚ । सा । य॒वि॒ष्ठ॒ । असा᳚म । यस्य᳚ । वि॒ध॒तः । वृ॒धासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने रराणो रममाणो देवो दीप्यमानस्त्वं यस्य मर्त्यस्य मनुष्यस्य संबन्धि सुधितं त्वदर्थं सुष्थु निहितमध्वरमनुपहतं हविर्लक्षणमन्नं जुजोषः सेवेथा हे यविष्ठ युवतम सा होत्रा स होता यजमानः प्रीतेदसत् । प्रीत एव भवेत् । असाम तस्य यजमानस्य सम्बन्धिनो भवेम यस्य विधतोऽग्निपरिचर्यां कुर्वतो यजमानस्य होत्रादयो वृधासो यज्ञस्य वर्धयितारो भवन्ति । जुजोषः । जुषी प्रीतिसेवनयोरित्यस्य बहुलं छन्दसीति श्लुः । अडागमः । अभ्यस्तस्वरः । सुधितम् । दधातेर्निष्ठायां सुधितवसुधितेति निपातनात् ध्यादेशः । गतिरनन्तर इति गतेः स्वरः । असाम । अस्तेर्लोट्याडुत्तमस्य पिच्चेत्याडागमः । उत्तमस्य पिद्वद्भावादनुदात्तत्वे धातुस्वरः । विधतः । विध विधाने । तुदादिः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १० ॥