श्रवणम्

4.2.20
ए॒ता ते᳚ अग्न उ॒चथा᳚नि वे॒धो॑वो᳚चाम क॒वये॒ ता जु᳚षस्व ।
उच्छो᳚चस्व कृणु॒हि वस्य᳚सो नो म॒हो रा॒यः पु᳚रुवार॒ प्र य᳚न्धि ॥
▶ पदपाठः (Word-by-word)
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा᳚नि । वे॒धः॒ । अवो᳚चाम । क॒वये᳚ । ता । जु॒ष॒स्व॒ ।
उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य᳚सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒॑वा॒र॒ । प्र । य॒न्धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधो विधातर्हे अग्ने कवये मेधाविने ते तुभ्यमेतैतान्युचथान्युक्थानि शस्त्राण्यवोचाम । त्वं ता तानि जुषस्व । सेवस्व । किञ्च त्वमुच्छोचस्व । उद्दीप्यस्व । नोऽस्मान्वस्यसोऽतिशयेन धनयुक्तान् कृणुहि । कुरु । तदेवोच्यते । पुरुवारपुरुभिर्बहुभिर्वरणिय महो रायो महद्धनं प्र यन्धि । अस्मभ्यं प्रयच्छ । अवोचाम । वच परिभाषणे । लुङि च्लेरङादेशः । पादादित्वादनिघातः । कृणुहि । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । तिङ उत्तरत्वादनिघातः । वस्यसः । वसुमच्छब्दादीयसुनि विन्मतोर्लुगिति मतुपो लुकि टिलोपे च कृत ईकारलोपश्छान्दसः । यन्धि । यमेर्लोटि बहुलं छन्दसिति विकरनस्य लुक् । वा छन्दसीति हेर्विकल्पेन पित्त्वादङितश्चेति धिरादेशः ॥ २० ॥