श्रवणम्

4.2.5
गोमा{4}᳚ अ॒ग्ने॑वि᳚मा{4} अ॒श्वी य॒ज्ञो नृ॒वत्स᳚खा॒ सद॒मिद᳚प्रमृ॒ष्यः ।
इळा᳚वा{4} ए॒षो अ᳚सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ᳚थुबु॒ध्नः स॒भावा᳚न् ॥
▶ पदपाठः (Word-by-word)
गो॑मा᳚न् । अ॒ग्ने॒ । अवि᳚॑मान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्॑स᳚खा । सद᳚म् । इत् । अ॒प्र॒॑मृ॒ष्यः ।
इळा᳚॑वान् । ए॒षः । अ॒सु॒र॒ । प्र॒जा॑वा᳚न् । दी॒र्घः । र॒यिः । पृ॒थु॒॑बु॒ध्नः । स॒भा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुर बलवन्हे अग्ने एष मदीयोऽयं यज्ञो गोमान् गोभिस्तद्वानविमान् । अवयो मेशा अस्य सन्ति तद्वान् अश्व्यश्वोपेतश्चास्तु । नृवत्सखा । नरः कर्माणां नेतारोऽध्वर्व्यादयस्तद्वन्तः सखायोऽनुष्ठातरो यजमाना यस्य स तथोक्तः । सदमित्सदैवाप्रमृष्योऽप्रधृष्यश्चास्तु । तथेळावान् । इळा हविर्लक्षणमन्नं तद्वान् । प्रजावान्पुत्रपौत्रादियुक्तश्चास्तुफ़् । दीर्घोऽविच्छिन्नानुष्थानोपेतो रयिर्धनवान् । लुप्तमत्वर्थीयः । पृथुबुध्नः । पृथूनि बहुलानि बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः । सभावानुपद्रष्टृरूपसभायुक्तश्चास्तु । नृवत्सखा । नरो येषां सन्तीति नृवत् । मतुप् । तस्य छान्दसं वत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ५ ॥