क॒विं श᳚शासुः क॒वयो॑द᳚ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः ।
अत॒स्त्वं दृश्या{4}᳚ अग्न ए॒तान्प॒ड्भिः प᳚श्ये॒रद्भु᳚ता{4} अ॒र्य एवै᳚ः ॥
अत॒स्त्वं दृश्या{4}᳚ अग्न ए॒तान्प॒ड्भिः प᳚श्ये॒रद्भु᳚ता{4} अ॒र्य एवै᳚ः ॥
पदपाठः (Word-by-word)
क॒विम् । श॒शा॒सुः॒ । क॒वयः᳚ । अद᳚ब्धाः । नि॒॑धा॒रय᳚न्तः । दुर्या᳚सु । आ॒योः ।
अतः᳚ । त्वम् । दृश्या᳚न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्॑भिः । प॒श्येः॒ । अद्भु᳚तान् । अ॒र्यः । एवैः᳚ ॥
अतः᳚ । त्वम् । दृश्या᳚न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्॑भिः । प॒श्येः॒ । अद्भु᳚तान् । अ॒र्यः । एवैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने आयोर्मनुष्यस्य दुर्यासु गृहेष्वदब्धाः केनाप्यरितस्कृता निधारयन्तो निवसन्तः कवयह् क्रान्तदृशो देवाः कविं मेधाविनं त्वां शशासुः; होता भवेति शशंसुः । अतः कारणादर्यो यज्ञस्य स्वामी त्वं दृश्यान्दर्शनीयानद्भुतानाश्चर्यरूपोपेतानिन्द्रादीनेतान्देवानेवैर्गमनशीलैः षड्भिः पादैः स्वतेजोभिः पश्येः । जानीयाः । दृश्यान् । दृशिर् प्रेक्षणे । ऋदुपधाच्चाक्लृपिचृतेः । पा. ३-१-११० । इति कर्मणि क्यप् । कित्त्वादगुणः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १२ ॥