श्रवणम्

4.2.6 समानपद
यस्त᳚ इ॒ध्मं ज॒भर᳚त्सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप᳚ते त्वा॒या ।
भुव॒स्तस्य॒ स्वत᳚वा{4}ः पा॒युर᳚ग्ने॒ विश्व᳚स्मात्सीमघाय॒त उ᳚रुष्य ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । इ॒ध्मम् । ज॒भर᳚त् । सि॒ष्वि॒दा॒नः । मू॒र्धान᳚म् । वा॒ । त॒तप᳚ते । त्वा॒॑या ।
भुवः᳚ । तस्य᳚ । स्व॑त᳚वान् । पा॒युः । अ॒ग्ने॒ । विश्व᳚स्मात् । सी॒म् । अ॒घ॒॑य॒तः । उ॒रु॒ष्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वदर्थं यः पुमान् सिष्विदानः सिस्विदानः स्विद्यद्गात्रः सन् इध्मं त्वत्समिन्धनार्थं काष्ठभारं जभरत् । आहरति । यो वा त्वाया त्वत्कामनया मूर्धानं स्वमस्तकं ततपते काष्ठभारेण तापयति तस्य तादृशस्य पुंसः स्वतवान् । स्वतवान्धनवानिति तलवकार उक्तम् । धनवान् भुवः । भवसि । पायुः पलयितासि । सीमेनं विश्वस्मादघायतोऽघं पापमिच्छतः पुरुषादुरुष्य । रक्ष । जभरत् । हरतेर्लुङि चङि रूपम् । चङ्यन्यतरस्यामिति चङ् पुर्व्स्योदात्तत्वम् । सिस्विदानः । ञष्विदागात्रक्षरणे । कानचि रूपम् । संहितायामादेशप्रत्यययोरिति धातुसकारस्य षत्वम् । त्वाया । त्वामात्मन इच्छतीत्यर्थे क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यन्तस्य त्वादेशः । दकारस्य छान्दसमात्वम् । क्यजन्ताद्धातोर्भावे अ प्रत्ययादित्यकार प्रत्ययः । सुपां सुलुगिति तृतीयाया आकारः । एकादेशस्वरः । भुवः । भवतेर्लेट्यडागमे रूपम् । भूसुवोस्तिङीति गुणप्रतिषेधः । आगमस्यानुदात्तत्वे धातुस्वरः । स्वतवाः पायुरित्यत्र संहितायां स्वतवान्पायौ । पा. ८-३-११ । इति नकारस्य रुत्वम् । अत्रानुनासिकः पुर्वस्य तु वेत्याकारोऽनुनासिकः । रेफस्य विसर्जनीयः । कुप्वोः कः पौ चेतिः प इत्यादेशः । अघायतः । अघमात्मन इच्छतीत्यर्थे सुपः क्यच् । अश्वाघस्यादित्यात्वम् । तदन्ताच्छतृप्रत्ययः । शतरनुम इति विभक्तेरुदात्तत्वम् । उरुष्य । उरुशब्दः कण्ड्वादिः । लोटि रूपम् । निघातः ॥ ६ ॥