श्रवणम्

4.2.9
यस्तुभ्य᳚मग्ने अ॒मृता᳚य॒ दाश॒द्दुव॒स्त्वे कृ॒णव᳚ते य॒तस्रु᳚क् ।
न स रा॒या श᳚शमा॒नो वि यो᳚ष॒न्नैन॒मंह॒ः परि᳚ वरदघा॒योः ॥
▶ पदपाठः (Word-by-word)
यः । तुभ्य᳚म् । अ॒ग्ने॒ । अ॒मृता᳚य । दाश᳚त् । दुवः᳚ । त्वे इति᳚ । कृ॒णव᳚ते । य॒त॑स्रु᳚क् ।
न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः᳚ । परि᳚ । व॒र॒त् । अ॒घ॒॑योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यो यजमानोऽमृताय मरणधर्मरहिताय तुभ्यं दाशत् हवींषि प्रयच्छेत् । यतस्रुक् संयतस्रुक् यश्च यजमानस्त्वे त्वयि दुवः परिचर्यां कृणवते करोति शशमानः स्तोत्रं कुर्वाणः स यजमानो राया धनेन न वि योषत् । न पृघग्भवेत् । सदा धनयुक्तो भवेदित्यर्थः । अघायोः पापमिच्छतो हिंसकस्य सम्बन्ध्यंह आहननं पापमेनं यजमानं न परि वरत् । न परिवृणुयात् । न स्पृशेदित्यर्थः । दाशत् । दाशृ दाने । लेट्यडागमे रूपम् । त्वे । सुपां सुलुगिति सप्तम्याः शे इत्यादेशः । कृणवते । यद्वृत्तयोगादनिघातः । योषत् । यु मिश्रने । लेटि सिब्बहुलमिति सिप् । अडागमः । निघातः । वरत् वृञ् वरणे । लेटि रूपं ॥ ९ ॥