श्रवणम्

4.2.13
त्वम᳚ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य᳚विष्ठ ।
रत्नं᳚ भर शशमा॒नाय᳚ घृष्वे पृ॒थु श्च॒न्द्रमव᳚से चर्षणि॒प्राः ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वा॒घते᳚ । सु॒॑प्रनी᳚तिः । सु॒त॑सो᳚माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ ।
रत्न᳚म् । भ॒र॒ । श॒श॒मा॒नाय᳚ । घृष्वे॒ । पृ॒थु । च॒न्द्रम् । अव᳚से । च॒र्ष॒णि॒॑प्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ युवतम घृष्टे दीप्तियुक्त । यद्वा । परेषां घर्षणशील हे अग्ने चर्षणिप्रा अपेक्षितप्रदानेन मनुष्याणां कामपुरकः सुप्रणीतिः सूष्ठूत्तरवेद्यां प्रनयनीयस्त्वं सुतसोमाय विधते तव परिचरणं कुर्वते शशमानाय त्वां स्तुवते वाघते यज्ञनिर्वाहकाय यजमानाय पृथु प्रभूतं चन्दर्माह्लादकारि रत्नमुत्तमं धनमवसे रक्षणाय भर । आहर । प्रयच्छेत्यर्थः । सुप्रणीतिः । णिञ् प्रापने । कर्मणि क्तिन् । तदौ च निति कृतीत्यनन्तरप्रशब्दस्योदात्तत्वम् । पृथु श्चन्द्रमित्यत्र सम्हितायां ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । श्चुत्वेन शकारः ॥ १३ ॥