श्रवणम्

4.2.19 समानपद
अक᳚र्म ते॒ स्वप᳚सो अभूम ऋ॒तम᳚वस्रन्नु॒षसो᳚ विभा॒तीः ।
अनू᳚नम॒ग्निं पु᳚रु॒धा सु᳚श्च॒न्द्रं दे॒वस्य॒ मर्मृ᳚जत॒श्चारु॒ चक्षु᳚ः ॥
▶ पदपाठः (Word-by-word)
अक᳚र्म । ते॒ । सु॒॑अप᳚सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः᳚ । वि॒॑भा॒तीः ।
अनू᳚नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒॑च॒न्द्रम् । दे॒वस्य᳚ । मर्मृ᳚जतः । चारु᳚ । चक्षुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव परिचरणमकर्म । कुर्मः । तेन कर्मणा स्वपसः शोभनकर्माणोऽभूम । विभातीर्व्युच्छन्त्य उषस ऋतं तेजोऽवस्रन् । आच्छादयन्ति । धारयन्तीत्यर्थः । तथा ता उषसोऽनूनं संपूर्णं पुरुधा बहुधा सुश्चन्द्रं सुष्ठ्वह्लादकारिणं यद्वा सुहिरण्यमग्निं धारयन्ति । किञ्च देवस्य द्योतमानस्य तव चारु मनोहरं चक्षुस्तेजो मर्मृजतः परिचरन्तो वयं स्वपसोऽभूमेति पुर्वेणान्वयः । अकर्म । करोतेर्लङि बहुलं छन्दसीति विकरनस्य लुक् । मर्मृजतः । म्रुजूश् शुद्धौ । यङ् लुकि रुग्रिकौ च लुकीत्यभ्यासस्य रुगागमः । शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः ॥ १९ ॥