चतुर्थं मण्डलम् - सूक्तम् 27

5 ऋचः

ऋषिः: वामदेवो गौतमः देवता: श्येनः छन्दः: त्रिष्टुप्

सूक्तम् 4.27 - सम्पूर्णम्

1 / 5
ऋक्: 4.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
4.27.1 समानपद
गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि᳚मानि॒ विश्वा᳚ ।
श॒तं मा॒ पुर॒ आय᳚सीररक्ष॒न्नध᳚ श्ये॒नो ज॒वसा॒ निर᳚दीयम् ॥
▶ पदपाठः (Word-by-word)
गर्भे᳚ । नु । सन् । अनु᳚ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना᳚म् । जनि᳚मानि । विश्वा᳚ ।
श॒तम् । मा॒ । पुरः᳚ । आय᳚सीः । अ॒र॒क्ष॒न् । अध᳚ । श्ये॒नः । ज॒वसा᳚ । निः । अ॒दी॒य॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गर्भे न्विति पञ्चर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । अन्त्याशक्वरी षट् पञ्चाशदक्षरा । स्येनो देवता । पूर्वसूक्तेऽष्टौ वेत्युक्तत्वादन्त्याया इन्द्रो वा देवता । तथा चानुक्रान्तम् । गर्घे नु पञ्चान्त्या शक्वरीति । स्येने निष्केवल्यशस्त्रं इदं सूक्तम् । सूत्रं तु पूर्वमुदाहृतं ॥

अत्रैष श्लोकः पथ्यते । श्येनभावं समास्थाय गर्भाद्योगेन निःसृतः । ऋषिर्गर्भे शयानः सन् ब्रूते गर्भे नु सन्निति । गर्भे नु गर्भ एव सन् विद्यमानोऽहं वामदेव एषामिन्द्रादीनां देवानां विश्वा विश्वानि सर्वाणि जनिमानि जन्मान्यन्ववेदम् । आनुपूर्व्येणाज्ञासिषम् । परमात्मनः सकाशात्सर्वे देवा जाता इत्यवेदिषमित्यर्थः । इतः पूर्वं शतं बहून्यायसीरयोमयान्यभेद्यानि पुरः शरीराणि मा मामरक्षन् । अपालयन् । यथाहं शरीराद्व्यतिरिक्तमात्मानं न जानीयां तथा मामरक्षन्नित्यर्थः । अधाधुना श्येनः श्येनवत्स्थितोऽहं जवसा वेगेन निरदीयम् । शरीरान्निरगमम् । अनावरणमात्मानं जानन्निर्गतोऽस्मीत्यर्थः । पुरुशे ह वा अयमादित इति खण्डे गर्भ एवैतच्छयानो वामदेव एवमुवाचेत्यादिना । ऐ. आ. २-५-१ । अयमर्थः सम्यक् प्रतिपादितः ॥ १ ॥

4.27.2
न घा॒ स मामप॒ जोषं᳚ जभारा॒भीमा᳚स॒ त्वक्ष᳚सा वी॒र्ये᳚ण ।
ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाता{4}᳚ अतर॒च्छूशु᳚वानः ॥
▶ पदपाठः (Word-by-word)
न । घ॒ । सः । माम् । अप᳚ । जोष᳚म् । ज॒भा॒र॒ । अ॒भि । ई॒म् । आ॒स॒ । त्वक्ष᳚सा । वी॒र्ये᳚ण ।
ई॒र्मा । पुर᳚म्॑धिः । अ॒ज॒हा॒त् । अरा᳚तीः । उ॒त । वाता᳚न् । अ॒त॒र॒त् । शूशु᳚वानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स गर्घो मां वामदेवं जोषं पर्याप्तं न घ नैवाप जभार । अपजहार । गर्भेऽपि वसतो मे मोहो नाभूदित्यर्थः । अहं तु ईमिदं गर्भस्थं दुःखं त्वक्षसा तीक्ष्णेन वीर्येण ज्ञानसामर्थ्येनाभ्यास । अभ्यभवम् । ईर्मा सर्वस्य प्रेरकः पुरन्धिः पुरां धारकः परमात्मारातीर्गर्भसंश्रितान् शत्रूनजहात् । अत्यजत् । जघान । उतापि च सूशुवानो वर्थमानः परिपूर्णः परमात्मा वातान् गर्भक्लेशकरान्वायूनतरत् । अतारीत् ॥ २ ॥

4.27.3
अव॒ यच्छ्ये॒नो अस्व᳚नी॒दध॒ द्योर्वि यद्यदि॒ वात᳚ ऊ॒हुः पुरं᳚धिम् ।
सृ॒जद्यद᳚स्मा॒ अव᳚ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन᳚सा भुर॒ण्यन् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । यत् । श्ये॒नः । अस्व᳚नीत् । अध᳚ । द्योः । वि । यत् । यदि᳚ । वा॒ । अतः᳚ । ऊ॒हुः । पुर᳚म्॑धिम् ।
सृ॒जत् । यत् । अ॒स्मै॒ । अव᳚ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः᳚ । अस्ता᳚ । मन᳚सा । भु॒र॒ण्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध तदानीं सोमाहरणकाले यद्यदा श्येनो द्योर्द्युलोकादवास्वनीत् अवाङ्मुखं शब्दमकरोत् । यदि वा यदा च । वेति चार्थे । यद्यं पुरन्धिं सोममतोऽस्माच्छ्येनाद्व्यूहः । सोमपाला विक्षिप्तवन्तः । यद्यदास्ताशराणां क्षेप्ता मनसा मनोवेगेन भुरण्यन् गन्तुमिच्छन् कृशानुरेतन्नामकः सोमपालो ज्यां धनुषः कोटौ वौर्वीं क्षिपद्ध । चिक्षेप खलु । अस्मैश्येनाय शरमवासृजत् । त्यक्तवान् । तथा च ब्राह्मणम् । तस्या अनुविसृज्य क्रुशानुः सोमपालः सव्यस्य पदो नखमच्छिददित्यादि । ऐ. ब्रा. ३-२६ ॥ यदा सोमपाला इत्थमित्थं चक्रुस्तदा श्येनः सोममाजहारेत्यृचोत्तरया सम्बन्धः ॥ ३ ॥

4.27.4 समानपद
ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज᳚भार बृह॒तो अधि॒ ष्णोः ।
अ॒न्तः प᳚तत्पत॒त्र्य᳚स्य प॒र्णमध॒ याम᳚नि॒ प्रसि᳚तस्य॒ तद्वेः ॥
▶ पदपाठः (Word-by-word)
ऋ॒जि॒प्यः । ई॒म् । इन्द्र᳚॑वतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि᳚ । स्नोः ।
अ॒न्तरिति᳚ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध᳚ । याम᳚नि । प्र॑सि᳚तस्य । तत् । वेरिति॒ वेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजिप्य ऋजुगामी श्येन इन्द्रवत इन्द्रो रक्षको यस्य तस्माद्बृहतो महतोऽधि उपरि स्नोः स्थिताद्ध्य्लोकादीमेनं सोमं जभार । आजहार । तत्र दृष्टान्तः । इन्द्रवतः । इन्द्रः समर्थः । तद्वतो देशाद्भुज्यं न भुज्युनामकं राजानं यथाश्विनावाजह्रतुस्तद्वत् । अध तदानीं यामनि युद्धे प्रसितस्य कृशानोरस्त्रैर्बद्धस्य वेर्गन्तुरस्य श्येनस्यान्तर्मध्ये स्थितं पतत्रि पतनशीलं तत्पर्णं पतत् । अपतत् ॥ ४ ॥

4.27.5
अध᳚ श्वे॒तं क॒लशं॒ गोभि᳚र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्ध᳚ः ।
अ॒ध्व॒र्युभि॒ः प्रय᳚तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति᳚ ध॒त्पिब᳚ध्यै॒ शूरो॒ मदा᳚य॒ प्रति᳚ ध॒त्पिब᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
अध᳚ । श्वे॒तम् । क॒लश᳚म् । गोभिः᳚ । अ॒क्तम् । आ॒॑पि॒प्या॒नम् । म॒घ॑वा᳚ । शु॒क्रम् । अन्धः᳚ ।
अ॒ध्व॒र्यु॑भिः᳚ । प्र॑य᳚तम् । मध्वः᳚ । अग्र᳚म् । इन्द्रः᳚ । मदा᳚य । प्रति᳚ । ध॒त् । पिब᳚ध्यै । शूरः᳚ । मदा᳚य । प्रति᳚ । ध॒त् । पिब᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाधुना शूरो विक्रान्तो मघवा धनवानिन्द्रः श्वेतं शुभ्रं कलशं कलशे पात्रे स्थितं गोभिर्गव्येन पयसाक्तं सिक्तमापिप्यानमाप्याययन्तं शुक्रं सारोपेतमध्वर्युभिः प्रयतं दत्तमन्धः सोमलक्षनमन्नं मध्वो मधुरस्य सोमरसस्याग्रमग्रे मदाय मदार्थं पिबध्यै पातुं प्रति धत् । प्रतिदधातु । पुनरुक्तिरादरार्था ॥ ५ ॥