श्रवणम्

4.27.3
अव॒ यच्छ्ये॒नो अस्व᳚नी॒दध॒ द्योर्वि यद्यदि॒ वात᳚ ऊ॒हुः पुरं᳚धिम् ।
सृ॒जद्यद᳚स्मा॒ अव᳚ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन᳚सा भुर॒ण्यन् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । यत् । श्ये॒नः । अस्व᳚नीत् । अध᳚ । द्योः । वि । यत् । यदि᳚ । वा॒ । अतः᳚ । ऊ॒हुः । पुर᳚म्॑धिम् ।
सृ॒जत् । यत् । अ॒स्मै॒ । अव᳚ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः᳚ । अस्ता᳚ । मन᳚सा । भु॒र॒ण्यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध तदानीं सोमाहरणकाले यद्यदा श्येनो द्योर्द्युलोकादवास्वनीत् अवाङ्मुखं शब्दमकरोत् । यदि वा यदा च । वेति चार्थे । यद्यं पुरन्धिं सोममतोऽस्माच्छ्येनाद्व्यूहः । सोमपाला विक्षिप्तवन्तः । यद्यदास्ताशराणां क्षेप्ता मनसा मनोवेगेन भुरण्यन् गन्तुमिच्छन् कृशानुरेतन्नामकः सोमपालो ज्यां धनुषः कोटौ वौर्वीं क्षिपद्ध । चिक्षेप खलु । अस्मैश्येनाय शरमवासृजत् । त्यक्तवान् । तथा च ब्राह्मणम् । तस्या अनुविसृज्य क्रुशानुः सोमपालः सव्यस्य पदो नखमच्छिददित्यादि । ऐ. ब्रा. ३-२६ ॥ यदा सोमपाला इत्थमित्थं चक्रुस्तदा श्येनः सोममाजहारेत्यृचोत्तरया सम्बन्धः ॥ ३ ॥