चतुर्थं मण्डलम् - सूक्तम् 52

7 ऋचः

ऋषिः: वामदेवो गौतमः देवता: उषाः छन्दः: गायत्री

सूक्तम् 4.52 - सम्पूर्णम्

1 / 7
ऋक्: 4.52.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.52.1
प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसु᳚ः ।
दि॒वो अ᳚दर्शि दुहि॒ता ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । स्या । सू॒नरी᳚ । जनी᳚ । वि॒॑उ॒च्छन्ती᳚ । परि᳚ । स्वसुः᳚ ।
दि॒वः । अ॒द॒र्शि॒ । दु॒हि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रति ष्येति सप्तर्चं सप्तमं सूक्तं गायत्रमुषोदेवताकम् । प्रति ष्या सप्त गायत्रमित्यनुक्रमणिका ॥ प्रातरनुवाक उषस्ये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं शस्यम् । अथोषस्यः प्रति ष्या सूनरी । आ. ४-१४ । इति हि सूत्रितं ॥

स्या सा संस्तूयमाना सूनरी सुष्ठु प्राणिनां नेत्री जनी जनयित्री फलानां स्वसुः सस्वृस्थानीयाया रात्रेः परि उपरिभागे रात्रिपर्यवसानकाले व्युच्छन्ती तमो विवासयन्ती । स्वसा स्वस्रे ज्यायस्यै । ऋग्वे. १-१२४-८ । इत्युक्तम् । दिवो द्योतमानस्यादित्यस्य दुहितोषाः पत्यदर्शि । प्रतिदृश्यते सर्वैः ॥ १ ॥

4.52.2
अश्वे᳚व चि॒त्रारु᳚षी मा॒ता गवा᳚मृ॒ताव᳚री ।
सखा᳚भूद॒श्विनो᳚रु॒षाः ॥
▶ पदपाठः (Word-by-word)
अश्वा᳚॑इव । चि॒त्रा । अरु᳚षी । मा॒ता । गवा᳚म् । ऋ॒त॑व᳚री ।
सखा᳚ । अ॒भू॒त् । अ॒श्विनोः᳚ । उ॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वेव चित्रा जायनीयारुषी आरोचमाना गवां रश्मीनां माता निर्मात्री ऋतावरी यज्ञवत्युषा अश्विनोः सखा समानख्याना सह स्तूयमानाभूत् । भवति । अश्विनोरुषसा सह स्तूयमानात्वात्सखित्वं परस्परं ॥ २ ॥

4.52.3
उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि ।
उ॒तोषो॒ वस्व᳚ ईशिषे ॥
▶ पदपाठः (Word-by-word)
उ॒त । सखा᳚ । अ॒सि॒ । अ॒श्विनोः᳚ । उ॒त । मा॒ता । गवा᳚म् । अ॒सि॒ ।
उ॒त । उ॒षः॒ । वस्वः᳚ । ई॒शि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि चाश्विनोः सखासि । उतापि च गवां रश्मीनां मातासि । उतापि च हे उषो वस्वो धनस्येशिषे । ईश्वरा भवसि ॥ ३ ॥

4.52.4
या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि ।
प्रति॒ स्तोमै᳚रभुत्स्महि ॥
▶ पदपाठः (Word-by-word)
य॒व॒यत्॑द्वे᳚षसम् । त्वा॒ । चि॒कि॒त्वित् । सू॒नृ॒ता॒॑व॒रि॒ ।
प्रति᳚ । स्तोमैः᳚ । अ॒भु॒त्स्म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यावयद्द्वेषसम् । यवयन्तो वियुज्यमाना द्वेषांसि द्वेष्टारो यस्यास्तादृशी । पृथक्क्रियन्ते द्वेषांस्यनयेति वा । रात्रौ हननायोद्युक्ता द्वेषिण उषः काले हि पलायन्ते । तादृशीं चिकित्वित् ज्ञापयन्तीं त्वा त्वां सूनृतावरि । सूनृतेति वाङ्नाम । तद्वति देविस्तोमैः स्तुतिभिः प्रत्यभुत्स्महि । प्रतिबोधयामः । स्तुम इत्यर्थः ॥ ४ ॥

4.52.5
प्रति᳚ भ॒द्रा अ᳚दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः᳚ ।
ओषा अ᳚प्रा उ॒रु ज्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । भ॒द्राः । अ॒दृ॒क्ष॒त॒ । गवा᳚म् । सर्गाः᳚ । न । र॒श्मयः᳚ ।
आ । उ॒षाः । अ॒प्राः॒ । उ॒रु । ज्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्राः स्तुत्या रश्मयः प्रत्यद्रुक्षत । प्रतिदृश्यन्ते । गवामुदकानानां सर्गा न वर्षधारा इवेयमुषा उरु ज्रयो महत्तेज आप्राः । आपूरयत् ॥ ५ ॥

4.52.6
आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति᳚षा॒ तमः᳚ ।
उषो॒ अनु᳚ स्व॒धाम᳚व ॥
▶ पदपाठः (Word-by-word)
आ॒॑प॒प्रुषी᳚ । वि॒भा॒॑व॒रि॒ । वि । आ॒वः॒ । ज्योति᳚षा । तमः᳚ ।
उषः᳚ । अनु᳚ । स्व॒धाम् । अ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभावरि विभावत्युषस्त्वमापप्रुष्यापुरयन्ती तेजसा जगत् ज्योतिषा तेजसा तमोऽन्धकारं व्यावः । व्यावृणोः किञ्च अनु पश्चात् स्वधां हविर्लक्शणमन्नमव । रक्ष ॥ ६ ॥

4.52.7
आ द्यां त᳚नोषि र॒श्मिभि॒रान्तरि᳚क्षमु॒रु प्रि॒यम् ।
उषः᳚ शु॒क्रेण᳚ शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । द्याम् । त॒नो॒षि॒ । र॒श्मि॑भिः᳚ । आ । अ॒न्तरि᳚क्षम् । उ॒रु । प्रि॒यम् ।
उषः᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आद्यां तनोषीत्येषा देवानां हविःषूषसोऽनुवाक्या । सूत्रितं च । आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि । आ. ६-१४ ॥ इति ॥

हे उषो रश्मिभिर्द्यां दिवमा तनोषि । उरु विस्तीर्णं प्रियमन्तरिक्षं रश्मिभिरा तनोषि । शुक्रेण दीप्तेन शोचिषा प्रकाशेन युक्ता सत्येवं करोषि ॥ ७ ॥