श्रवणम्

4.57.7
इन्द्र॒ः सीतां॒ नि गृ᳚ह्णातु॒ तां पू॒षानु᳚ यच्छतु ।
सा न॒ः पय᳚स्वती दुहा॒मुत्त᳚रामुत्तरां॒ समा᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सीता᳚म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु᳚ । य॒च्छ॒तु॒ ।
सा । नः॒ । पय᳚स्वती । दु॒हा॒म् । उत्त᳚राम्॑उत्तराम् । समा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो देवः सीतां सीताधारकाष्ठाम् नि गृह्णातु । तां सीतां पूषा देवोऽनु यच्छतु । नियमयत् । सा द्यौः पयस्वत्युदकवती दुहाम् । दुह्यात् । कदेति तदुच्यते । उत्तरामुत्तरां समामुत्तरमुत्तरं संवत्सरम् ॥ ७ ॥