श्रवणम्

4.41.3
इन्द्रा᳚ ह॒ रत्नं॒ वरु᳚णा॒ धेष्ठे॒त्था नृभ्य᳚ः शशमा॒नेभ्य॒स्ता ।
यदी॒ सखा᳚या स॒ख्याय॒ सोमै᳚ः सु॒तेभि᳚ः सुप्र॒यसा᳚ मा॒दयै᳚ते ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ । ह॒ । रत्न᳚म् । वरु᳚णा । धेष्ठा᳚ । इ॒त्था । नृ॑भ्यः᳚ । श॒श॒मा॒नेभ्यः᳚ । ता ।
यदि᳚ । सखा᳚या । स॒ख्याय᳚ । सोमैः᳚ । सु॒तेभिः᳚ । सु॒॑प्र॒यसा᳚ । मा॒दयै᳚ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रावरुणौ ता । हेति प्रसिद्धौ । तौ खलु देवावित्थेत्थं नृभ्यो मनुष्येभ्यः शशमानेभ्यः शंसमानेभ्यः स्तोतृभ्योऽस्मभ्यं रत्नं रमणीयम् धनं धेष्ठा दातृतमौ । भवत इति शेशः । यदि सखाया परस्परं यजमानस्य वा सखिभूतौ सख्याय सखिकर्मणे सखित्वाय सुतेभिरभिषुतैः सोमैः सुप्रयासा शोभनसोमान्नवन्तौ मादयैते । माद्येताम् । तर्हि रत्नानां दातारौ भवतः ॥ ३ ॥