आ॒के॒नि॒पासो॒ अह᳚भि॒र्दवि᳚ध्वत॒ः स्व१॒᳚र्ण शु॒क्रं त॒न्वन्त॒ आ रजः᳚ ।
सूर᳚श्चि॒दश्वा᳚न्युयुजा॒न ई᳚यते॒ विश्वा{4}॒ अनु᳚ स्व॒धया᳚ चेतथस्प॒थः ॥
सूर᳚श्चि॒दश्वा᳚न्युयुजा॒न ई᳚यते॒ विश्वा{4}॒ अनु᳚ स्व॒धया᳚ चेतथस्प॒थः ॥
पदपाठः (Word-by-word)
आ॒के॒॑नि॒पासः᳚ । अह᳚॑भिः । दवि᳚ध्वतः । स्वः᳚ । न । शु॒क्रम् । त॒न्वन्तः᳚ । आ । रजः᳚ ।
सूरः᳚ । चि॒त् । अश्वा᳚न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा᳚न् । अनु᳚ । स्व॒धया᳚ । चे॒त॒थः॒ । प॒थः ॥
सूरः᳚ । चि॒त् । अश्वा᳚न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा᳚न् । अनु᳚ । स्व॒धया᳚ । चे॒त॒थः॒ । प॒थः ॥
सायणभाष्यम् (Sayana Commentary)
आकेनिपासः । आकेऽन्तिके निपतन्तीत्याकेनिपा रश्मयः । ते चाहभिरहोभिर्दविध्वतः कम्पयन्तो ध्वम्सयन्तो वा तमांसि । स्वर्न आदित्य इव शुक्रं दीप्तं रज आ तन्वन्तो भवन्त्यश्विनोरश्वाः । सूरश्चित्सूर्यश्चाश्वान्युयुजानो योजयन्नीयते । गच्छति । हे अश्विनौ युवां विश्वान्पथ आगमनमार्गाननुक्रमेण स्वधयान्नेन सोमलक्षणेन चेतथः । चेतयथः । प्रज्ञापयथः ॥ ६ ॥