श्रवणम्

4.45.7
प्र वा᳚मवोचमश्विना धियं॒धा रथ॒ः स्वश्वो᳚ अ॒जरो॒ यो अस्ति᳚ ।
येन᳚ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्॑धाः । रथः᳚ । सु॒॑अश्वः᳚ । अ॒जरः᳚ । यः । अस्ति᳚ ।
येन᳚ । स॒द्यः । परि᳚ । रजां᳚सि । या॒थः । ह॒विष्म᳚न्तम् । त॒रणि᳚म् । भो॒जम् । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धियन्धाः कर्मणां धारकोऽहं हे अश्विना वां प्रावोचम् । प्रब्रवीमि । स्त्ॐइ । स्वश्वोऽजरोऽजीर्णो नित्यनूतनोऽजरयिता वा रथो योऽस्ति । येन रथेन सद्यस्तदानीमेव रजांसि लोकान्परि याथः तेन रथेन हविष्मन्तं सोमादि हविर्युक्तं तरणिं तारकं शीघ्रगामिनं भोजं भोजयितारमस्मद्यागमच्छ प्राप्तुमागच्छतमिति शेषः ॥ ७ ॥