प्र ते॒ पूर्वा᳚णि॒ कर᳚णानि विप्रावि॒द्वा{4} आ᳚ह वि॒दुषे॒ करां᳚सि ।
यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्तापां᳚सि राज॒न्नर्यावि᳚वेषीः ॥
यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्तापां᳚सि राज॒न्नर्यावि᳚वेषीः ॥
पदपाठः (Word-by-word)
प्र । ते॒ । पूर्वा᳚णि । कर᳚णानि । वि॒प्र॒ । आ॒॑वि॒द्वान् । आ॒ह॒ । वि॒दुषे᳚ । करां᳚सि ।
यथा᳚॑यथा । वृष्ण्या᳚नि । स्व॑गू॒र्ता । अपां᳚सि । रा॒ज॒न् । नर्या᳚ । अवि᳚वेषीः ॥
यथा᳚॑यथा । वृष्ण्या᳚नि । स्व॑गू॒र्ता । अपां᳚सि । रा॒ज॒न् । नर्या᳚ । अवि᳚वेषीः ॥
सायणभाष्यम् (Sayana Commentary)
हे राजन्राजमानेन्द्र वृष्ण्यानि वर्षनयोग्यानि स्वगूर्ता स्वगूर्तानि स्वयमुद्गीर्णानि नर्या नर्याणि मनुष्यहितान्यपाम्सि त्वत्संबन्धीनि कर्माणि यथा यथाविवेषीर्व्याप्नोः । अकार्षीरिति यावत् । तथा तथा हे विप्र प्राज्ञेन्द्र विदुषे विदुषः सर्वं जानतस्ते त्वत्संबन्धीनि पूर्वाणि पुउरातनानि करणानि कर्माण्याविद्वान् अ समन्ताज्जानन् वामदेवः करांसि त्वदीयानि कर्माणि प्र प्रकर्षेणाह । ब्रवीति ॥ १० ॥