अतृ᳚प्णुवन्तं॒ विय᳚तमबु॒ध्यमबु᳚ध्यमानं सुषुपा॒णमि᳚न्द्र ।
स॒प्त प्रति᳚ प्र॒वत᳚ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि᳚णा अप॒र्वन् ॥
स॒प्त प्रति᳚ प्र॒वत᳚ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि᳚णा अप॒र्वन् ॥
पदपाठः (Word-by-word)
अतृ᳚प्णुवन्तम् । वि॑य᳚तम् । अ॒बु॒ध्यम् । अबु᳚ध्यमानम् । सु॒सु॒पा॒णम् । इ॒न्द्र॒ ।
स॒प्त । प्रति᳚ । प्र॒॑वतः᳚ । आ॒॑शया᳚नम् । अहि᳚म् । वज्रे᳚ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥
स॒प्त । प्रति᳚ । प्र॒॑वतः᳚ । आ॒॑शया᳚नम् । अहि᳚म् । वज्रे᳚ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वमतृप्णुवन्तं भोगेष्वतृप्यन्तं वियतं शिथिलाङ्गमबुध्यं दुर्विज्ञानमबुध्यमानं किमप्यजानन्तं सुषुपाणं सुप्तं सप्त सर्पणस्वभावाः प्रवतोऽपः प्रत्याशयानमावृत्य तिष्थन्तमहिं वृत्रमपर्वन् अपर्वणि पौर्नमास्यांवज्रेण वि रिणाः । व्यरिणाः । विशेशेण हतवानसि । पौर्णमास्यां व्रुत्रवधस्त्वष्टा हतपुत्र इत्यनुवाके घ्नन्ति वा एनं पौर्णमास आमावास्यायां प्याययन्तीति तैत्तरीयेऽप्युक्तः । तै. सं. २-५-२-५ ॥ ३ ॥