प्राग्रुवो᳚ नभ॒न्वो॒३॒᳚ न वक्वा᳚ ध्व॒स्रा अ᳚पिन्वद्युव॒तीरृ᳚त॒ज्ञाः ।
धन्वा॒न्यज्रा{4}᳚ अपृणक्तृषा॒णा{4} अधो॒गिन्द्र᳚ः स्त॒र्यो॒३॒᳚ दंसु᳚पत्नीः ॥
धन्वा॒न्यज्रा{4}᳚ अपृणक्तृषा॒णा{4} अधो॒गिन्द्र᳚ः स्त॒र्यो॒३॒᳚ दंसु᳚पत्नीः ॥
पदपाठः (Word-by-word)
प्र । अ॒ग्रुवः᳚ । न॒भ॒न्वः᳚ । न । वक्वाः᳚ । ध्व॒स्राः । अ॒पि॒न्व॒त् । यु॒व॒तीः । ऋ॒त॒॑ज्ञाः ।
धन्वा᳚नि । अज्रा᳚न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो᳚क् । इन्द्रः᳚ । स्त॒र्यः᳚ । दं॑सु᳚पत्नीः ॥
धन्वा᳚नि । अज्रा᳚न् । अ॒पृ॒ण॒क् । तृ॒षा॒णान् । अधो᳚क् । इन्द्रः᳚ । स्त॒र्यः᳚ । दं॑सु᳚पत्नीः ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रो नभन्वः शत्रूणां हिम्सिका वक्वा न सेना इव ध्वस्राः कूलानां ध्वंसिकायुवतीरद्भिर्मिश्रिता ऋतज्ञा ऋतस्यान्नस्य जनयित्रीरग्रुवः । अग्रुव इति नदीनामैतत् । अग्रगामिनीर्नदीः प्रापिन्वत् । प्रकर्षेणापूरयत् । तथा धन्वानि निर्जलानुन्नतान्देशांश्च वृष्ट्यापृणक् । अपूरयत् । तथाज्रान्मार्गस्य गन्तॄन् तृशाणान् पिपासया युक्तान् पुरुषानपृणक् । अपूरय्त । किञ्च इन्द्रो दंसुपत्निः । दमनपरा असुराः सुष्ठु पतयो यासां ताः स्तर्यः स्तरीर्निव्रुत्तप्रसवा गा अधोक् । अधुक्शत् । इन्द्रो राक्षसकृतनिरोधदुःखान्निरुद्धप्रसवा अपि गा विमुच्य सप्रसवाश्चकारेत्यर्थः ॥ ७ ॥